पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/२८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


१८
नृसिहप्रसादे

दानमिनि तलुचवात् । तदुक्त मनुना

“गोत्ररिक्थे जनयितुर्न हरेद्दत्तकः क्वचित्’ इति ।


श्रास्ता तावदप्रकृतं, प्रकृतं तु पत्रीस्नुषाशिष्यादीनां श्राद्धा
धिकारिणां वित्तलाभादिनाऽपि श्राद्धादिकरणमवश्यं द्रष्टव्यम् ।
ततश्च दम्पत्योः परस्पर शरीरार्धधर्तृत्वात् स्नुषादीनामेकशरीरा
न्वयवत्त्वेन. शिष्याचार्ययोश्च पितापुत्रवदुपचारात् श्राद्धाधिकार इति
सव मनारमम् । तथा च स्मृत्यन्तरम्

औरसे सति नान्यस्य श्राद्धादिविधिकारिता ।
तदभावे तु पत्न्यादेः शास्त्राणामेष निश्चय? इति ।


तथा च व्याघ्रपाद

“पितुः पुत्रेण कर्तव्याः पिण्डदानोदकक्रियाः ।
पुत्राभावे तु पत्री स्यात्पल्यभावे तु सोदरः? इति ।


पुत्राभावे तु पत्नी स्यादित्यादिवचनबलादेव शिष्यादीनां
पुत्राभाव एवाधिकारो नान्यथेति वेदितव्यम् । यदि पुत्रसद्भावे
ऽप्येषामधिकारो भवेत्तर्हि पत्न्याः को वाऽपराधः स्यात् येनासौ न
कुर्यात्तस्मात्पुत्राभाव एव पत्नीशिष्यादीनामधिकारो नान्यथेति
सिद्धम् । तथा च गौतमः–“पुत्राभावे सपिण्डाः शिष्याश्च तदभावे
ऋत्विगाचार्यावि' ति ।
मातृसपिण्डा मातुलादयः सपिण्डालाभे समानोदकाः पिण्डं
दद्युरिति । तदुक्तं मार्कण्डेयपुराणे

“पुत्राभावे सपिण्डास्तु तदभावे सहोदकाः ।
मातुः सपिण्डा एव स्युर्ये वा मातुः सहोदकाः ।।