पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/२७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


१७
श्राद्धसारे श्राद्धाधिकारिनिर्णयः ।

उरसो जातो ओरसः पुत्रः, स च धर्मपत्नीज:, सावण्र्यधर्मवि वाहोढा धर्मपत्नी, तस्यां जात ओरसः पुत्रा मुख्यः । तदभावे दत्तको वाऽधिकारी, इतरेषा कलो निषेधात् । तदाह--

माता पिता वा दद्याता यमद्भिः पुत्रमापदि ।
सदृशं प्रीतिसंयुक्त स ज्ञेयो दत्तकः सुतः' इति ।

अद्भिरिति वक्ष्यमाणोपदेशकपूर्वकमिति । श्रापद्ग्रहणमना पदि निषेधति । प्रतिषेधश्च दातुरेव “न चैक पुत्रं दद्यात् प्रतिगृह्णी याद्वा'इति वशिष्ठस्मरणात्।तथाऽनेकपुत्रवताऽपि ज्येष्टः पुत्रो नदेयः

“ज्येष्ठन जातमात्रेण पुत्री भवति मानवः' इति

पुत्रकार्यकरणे मुख्यत्वात् । स्मृत्यन्तरादयि अयमेवार्थ उप

“दद्यान्माता पिता वा यं स पुत्रो दत्तको भवेत्' इति ।

अयमाशय –अपत्यानि तावन्मातृपितृकारणद्वयप्रभवाणीति न तेषामेकः क्रयं प्रतिपादनमुत्सर्ग वा कर्तु प्रभवति “शुक्रशोणित प्रभवः पुरुषो मातापितृनिमित्तकः, तस्य विक्रयप्रदानपरित्यागेषु मातापितरौ प्रभवत” इति वशिष्ठस्मरणात् । अतः प्रदानादावु भावपि हेतू इति स्थितं, तत्प्रतिग्रहप्रकारो वशिष्ठनैवाभिहितः

“पुत्रं प्रतिग्रहीष्यन्वन्धूनाहूय राज्ञे निवेद्य निवेशनमध्पे महा
व्याहृतिभिर्तुत्वा श्रदूरबान्धवं बन्धुसन्निकृष्टमेनं प्रतिगृह्णीयात्' इति ।

अदूरबान्धवमिति अत्यन्तदेशभाषाविप्रकृष्टस्य प्रतिषेधः । ततश्च सन्निकृष्टयहणात् असन्निकृष्टबन्धुर्न पुत्रार्थ कर्तव्यः । अयं च प्रतिगृहीतुः पुत्रो न दातुः, स्वस्वत्वनिष्टत्तिपूर्वकपरस्वत्वापादनं