पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खः अमीमदन्त पितर इति जपतीति । अमीमदन्नेत्यनुमन्त्रणानन्नर
अवघ्राय शुन्धन्ताम्पितर इति पूर्ववत्पिण्डोपरि उदकनिनयनम् ।
ततोऽसाववनेनिक्ष्वेत्यवनेज्य वस्त्रदशामादाय एतद्वः पितरो वास इति
पिण्डे निक्षिप्य । अञ्जनगन्धलेपन ताम्बूलचस्त्रदक्षिणादिभिः
पूजयेत् ।
व्यासः
पिण्डप्रमाणमाह -

‘त्रिहायनस्य वत्सस्य विकृत्यस्यं यथा सुखम् ।
तथा कुर्यात्प्रमाणं तु पिण्डानां व्यासभापितम्' इति ।

अयं भावः-पिण्डाः कर्तव्या इत्थं कपित्थप्रमाणम् विश्व

फलप्रमाणं वा कुक्कुटाण्डप्रमाणं वा वदरीफलममाणं वा । तदुक्त
मङ्गिरसार

‘‘कपित्थबिल्वमात्रान्वा पिण्डान्दद्याद्विधानतः ।।
कुक्कुटाण्डप्रमाणं वा केषां वाऽऽप्रलकैः समान् ।
नवश्राद्धं स्थूलतरं तस्मादपि तु निर्वपेत् ।

तस्मादषि स्थूलतरमाशोचे प्रस्यब्दादावेकोद्दिष्टं ततोऽधिकतरं

नवश्राद्धद्वादशाहादिसपिण्डीकरणान्ते ततोऽप्यधिकतरमाशौचा
न्सर्वैर्तिपिण्डे प्राचीनं प्रमाणचतुष्टयं पार्वणश्राद्धमिति विवेक
रहस्यम् ।
एवं पिण्डान् निर्वीर्य स्खचिंतमस्त्विति यज्ञोपवीती भूत्वा विधिं
सम्पाद्य सुपोक्षितमस्त्विति श्रद्धदेशं सम्प्रोक्ष्य प्रादक्षिण्येन व्र
ह्मणहस्ते वारि पुष्पाक्षतांश्च दत्वा सकुशान् यवांश्च पुनरुदकादि