दत्वा अघोरः पितरः सन्वित्युक्ते द्विजैस्ते गोत्रं वर्धतामिति न
स्तथेत्युक्ते तैश्च पुनः दातारो नोऽभिवर्धन्तां वेदाः सन्ततिरेव च ।
श्रद्धा च नो मा व्यगमद् बहु देयं च नोऽस्त्विति सत्या एता प्राशिषः
सन्तु सन्तु इत्युक्तस्तै: पुनरिति ।
एतदनन्तरं पात्रचालन कृत्वा स्वस्तिवाचनं कुर्यात् ।
“अचलयित्वा तत्पात्रं स्वस्ति कुर्वन्ति ये द्विजः ।
निराशाः पितरो यान्ति यथाऽऽयन्तितथा गताः
पात्रचालने विशेषः ।
पात्राणि चालयेच्छाबें खरं शिष्योऽथवा सुतः ।
न स्त्रीभिर्न च बालेन नासजात्या कथञ्चन। इति ।
दक्षिां दत्वा स्त्रधा वाचयिष्ये इत्युक्त्वा तैब्रह्मणैर्वाच्यतामित्युक्ते
ऽनुज्ञातः प्रकृतपित्रादिभ्यो मातामहादिभ्यश्च स्वधोच्यतापित्युदा
हृत्य तैरैस्तु स्वधेत्युक्ते भूमौ जलमासिच्य विश्वेदेवा इत्युक्ते दो
तारो नोऽभिवर्धन्तामित्यादि मन्त्रं वाचयित्वा मियघाचा प्रणामं
विधाय वाजे वाजे इति जपित्वा धन्या वयं भवच्चरणकमलयुगल
पवित्रीकृतमस्मद्गृहमिह दिनमिति । अतो भवद्भिरनुष्ठीता वयमिति
प्रणिपातप्रदक्षिणापूर्व नमस्कृत्य विसर्जयेत् ।
अत्र विशेषः ।
“‘पत्न्यै प्रज्ञार्थं दद्यातु मध्यमं मन्त्रपूर्वकम् " इति । मध्यमं ।
मध्यमपिण्डम् । अत्र मन्त्रः—आधत्त पितरो गर्भ मन्त्रः