पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शाखापेक्षया विकल्पः । तत्राप्रशस्तेषु श्रद्धेषु पूर्व,
प्रशस्तेषुत्तरम् ।
अत्र नवश्राद्धमभृतीन्यप्रशस्तानि, सांवत्सरिकापरपक्षादीनि
प्रशस्तानि । तृप्तपरकालकर्तव्यतायामपि वैधम्, श्राचमनात् पूर्वमूर्च
वेति । आश्वलायनशाखिनां तु उभयपक्षे विकल्पः ।
“भुक्तवत्सु अनाचान्तेषु तेषु पिण्डान्निदध्यादाचान्तेषु वेति
आश्वलायनस्मरणात् । तत्प्रकारो ब्रह्माण्डेऽभिधीयते

सव्योत्तराभ्यां पाणिभ्यां कुर्यादुल्लेखनं द्विजः ।
प्रधर्षणं ततः कुयच्छुद्धकर्मण्यतन्द्रितः ।
कण्डनं पेषणं चैव तथैवोल्लेखनक्रिया ।
वज्ञेणाथ कुशैर्वापि उलुिखेनु महीं द्विजः” इति ।

तण्डुलादेः कण्डनंशाकादेश्छेदनं, पेषणं तण्डुलादेःभुवः क

पैणमपहता इति मन्त्रेण उल्लेखनम् । अत्र मन्त्रः कात्यायनेन
दर्शितः--

"असावेतत्त इति ये च त्वामन्विति चैक इति ।

असावित्यमुकगोत्र अमुकशर्मन् इति सम्बोध्य एतत्ते इति म

न्त्रेण पिण्डदानं सव्यं जान्वाच्य कुर्यात् । पिण्डदानोत्तरकाल
मनुः

“युष्य पिण्डान् पितृभ्यस्तु प्रयतो विधिपूर्वकम् ।
तेषु दर्पषु तं हस्तं निगृज्याल्लेपभागिनाम्" इति ।

विष्णुराह

अत्र पितरो मादयध्वमिति । तत्र अत्र पितर इत्युक्त्वदङ्