पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३६
नृसिहप्रसादे

गुरुणा तु दश प्रकारताऽभिहिता

‘‘क्रतुर्दक्षो वसुः सत्यः कालः कामस्तथैव च ।
धूरी तथा लोचनञ्च तथा चैव पुरूरवाः ॥
श्राद्धेवाश्च दशैवैमे विश्वेदेवाः प्रकीर्तिताः इति ।

कर्माङ्ग श्राद्ध

निषेककाले समे च सीमन्तोन्नयने तथा ।

ज्ञेयं पुंसवने श्राद्धं कर्माङ्ग तच्च वृद्धिवत्” इति पारस्करेणाभि

हितम् । नान्दीमुखं वृद्धिश्राद्धम् ।
“पुत्रजन्मविवाहादौ वृद्धिश्राद्युदाहृतमिति वृद्धवशिष्ठस्म
रणात् । आादिशब्दः अन्नप्राशनचूडाकरणदिसंस्कारपरिग्रह
र्थः । फलकामनोपाधिकं काम्यम् । पार्वर्वणममावास्याश्राद्धम् ।
नैमित्तिकं सपिण्डीकरणम् । अत्रायमासनादौ प्रयोगः । तत्र स्मृतिः।

‘‘अक्षय्यासनयोः षष्ठो चतुर्थी चासने मता ।
अर्थेऽवनेजने पिण्डे तथा प्रत्यवनेजने ।
सम्बुद्धचन्तानि कुर्वीत शब्दशास्त्रविशारदः ।

आसने षष्ठी, चतुर्या देशपरत्वेन वा व्यवस्थथा विकल्पः

व्यासस्तु विशेषमाह

‘चतुर्थीं त्वासने नित्यं सङ्कल्पे च विधीयते।
प्रथमा तर्पणे प्रोक्ता सम्बुद्धिमपरे जगुः" इति ।

बृहत्प्रचेताः

‘गोत्रं स्वरान्तं कुर्वीत गोत्रस्याक्षयकर्मणि ।
गोत्रस्तु तर्पणे प्रोक्तः कुर्वचेवं न मुह्यति ।
गोत्रशब्दस्य स्वरान्तताऽत्र पार्वणविषया एव न सर्वत्र ।