पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३५
श्राद्धसारे ब्राह्मणपूजामकारः

वाशब्दो व्यवस्थितविकल्पार्थः---यत्रस्था चैवं दैवे दक्षि
णतः पित्र्ये वामे इति ।

पितृकर्मणि वामे व दैवे कर्मणि दक्षिणे’इति स्मरणात् ।

काठके विशेषः

‘प्रदद्यादासने दर्भान्नतु पाणौ कदाचन ।
देवानामथवा दर्भाः पितृणा च यवैः सह" इति ।
आसनमुदङ्मुखो देवाना पितृणां दक्षिणामुखो दद्यात् ।
‘उदङ्मुखस्तु देवाना पितृणां दक्षिणामुखः ।
शासनाध्यादिकं दद्यात्सर्वमेव यथाविधि” इति

क्रतुस्मरणात् । शासनादौ नियमविधानं पादप्रक्षालनादौ

प्रत्यङ्मुखतामाह । शङस्सृतौ तु-श्राद्धभेदेन विश्वेदेवादिसंज्ञा
भेदो दृश्यते ।

‘‘इष्टिश्राद्धे क्रतुर्दक्षः सकीत्यै वैश्वदेविकौ ।
नान्दीमुखे सत्यव काम्येषु धूलिौचनौ ।
पुरूरवाद्भवौ चैव पार्वणे समुदाहृतौ ।
नैमित्तिके कामकालौ एवं सर्वत्र कीर्तयेत् ।
नैमित्तिकं सपिण्डीकरणम् ।
‘दत्वाऽऽसनं ततो दैवे कामकालौ सदैव हीति स्मृते ।

तदुत्पत्तिः श्रूयते

“दक्षस्य दुहिता साध्वी विश्वा नाम परिश्रुता ।
तस्याः पुत्रा महात्मानो विश्वेदेवा इति स्मृताः ।