पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१२७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


१२७
श्राद्धसारे ब्राह्मणसङ्ख्या

‘‘तथा मातामहश्राद्धे वैश्वदेवसमन्वितम् ।

कुर्वीत शक्तिसम्पनस्तन्त्रं वा वैश्वदेविकमिति मरीचिस्म

रणात् । तथेति पितृश्राद्धधमांतिदेशाचैतावधारणेन विकल्ये
ततश्च तन्त्रमेवेत्यर्थः ।
असमर्थभेदेकेनापि ब्राह्मणेन श्रद्धं कुर्यात् तथाह आहुः—

‘‘भोजयेदथवाऽयेकं ब्राह्मणं पद्विपावनम् ।
दैवे कृत्वा तु नैवेयं पश्चात्तस्यानुनिर्वपेत्" इति ।

ततश्च वर्गद्योद्देशेनैकमप्याशयेदिति तात्पर्यार्थः । तस्येति

ब्राह्मणस्य । यश्चैको भोज्यः स च छन्दोग एव भोज्यः। यतो हि
ऋग्यजुःसामानि तत्र वर्तन्ते । तत्र च पितुर्थीचा तृप्तिः यजुषा
पितामहस्य साम्ना प्रपितामहस्य । तदुक्तम्

“ऋचा च तृष्यति पिता यजुषा च पितामहः ।
प्रपितामहस्तथा साम्ना सामगो त्वधिकस्ततः”

इति । तथा गोभिलेऽपिउँछन्दोगस्य वैकैकस्य भोज्यतामाह

यद्येकं भोजयेच्छुद्धे छन्दोगंत त्र भोजयेत् ।
ऋचो यचूंषि सामानि त्रितयं तत्र विद्यते ।

तथाऽपरो विशेषः

छन्दोगं भोजयेच्छुद्धे वैश्वदेवे तु बह्वृचम् ।
पुष्टिकर्मण्यथाध्वर्यं शान्तिकर्मण्यथर्वणम्' इति ।

ननु एकब्राह्मणपते वैश्वदेवस्थाने कथम् इत्थम् , अग्निरेव

तत्र नियोज्यः।

“एक एव यदा विभो द्वितीयो नोपपद्यते ।