पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२६
नृसिहप्रसादे

विसर्जनं वाजे वाजे वाजिनो न इत्यादिमन्त्रः । तथा श्रद्धारम्भे
श्रद्धभूमौ गयां ध्यात्वेत्यादि, तथा विकस्यतो दक्षिणादानमपि
इत्यादि सर्व विहायान्यत्सर्वं प्राचीनावीतिना कार्यम् । क्रतुराह—

दर्भपाणिद्भिराचम्य लघुवासा जितेन्द्रियः।
परिश्रिते शुचौ देशे गोमयेनोपलेपिते ।
दक्षिणाप्रवणे सम्यगाचान्तान् प्रयतान् शुचीन् ।
आसनेषु विविक्तेषु विप्रांस्तानुपवेशयेत्" इति ।।

ब्राह्मणास्तु षट् द्वौ दैवे, त्रयः पित्र्ये एको विष्णुश्चेति ।

समर्थोऽपि न श्राद्धे विस्तरं कुर्यात् । अत एव ब्राह्मणसंख्या
मनुन दर्शिता

वै दैवे पितृकार्यं त्रीन् एकैकमुभयत्र वा ।
भोजयेत्सुसमृद्धोऽपि श्राद्धे कुर्यान्न विस्तरम्" इति ।

यद्यपि न कुर्यादिति मयोगि आाख्यातविध्यर्थश्रवणात्

विस्तरनिषेवः प्रतीयते, तथापि धर्मभूयस्त्वे फलभूयस्त्वस्य न्या
यत्वा सक्रियादिदेशसम्पादनसमर्थस्य विस्तराङ्गकरणस्य
सुकरत्वात् ‘‘नहि निन्दा निन्यं स्तोतुमिति न्यायेन जतिलयवाग्वा
वा जुहुयादित्यादिवद्विधेयलघुपक्षस्तुत्यर्थोऽयं ( निन्दार्थवाद इति ।
भावः । तथा पुराणेऽपि दर्शितम्--

‘पञ्चभिः पञ्चभिर्विनैः द्वाभ्यां द्वाभ्यामथापि वा ।
आद्धद्वयं त्रिभिर्वा स्यादेकेनैवाथवा पुनः' इति ।

अयमर्थः-वर्गद्वये अक्षरचतुष्टयाधिकसार्द्धश्लोकेन पूर्वपक्षे

पृथक् दैवं विधाय द्वादशभिरक्षरैः स्तोत्रमेवाभिधीयते ।