पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२८
नृसिहप्रसादे

पितृणां ब्राह्मणो योज्यो दैवं त्वग्नौ नियोजयेदि”ति शङ्कस्पर
णात् । यदा द्वौ ब्रह्मणौ तदाऽनौ वैश्वदेवं नियोज्य वर्गद्वयं ब्रा
ऋणद्वये | नियोजयेत् । वैश्वदेवस्याङ्गस्खास्पैतृकस्य प्रधानत्वात् । ।
अङ्गगुणविरोधे च तादथ्यदिति न्यायात् प्रधानानुरोधेनाङ्गानुष्ठेय
स्वेऽपि अङ्गानुरोधेन प्रधानबाधाया अयुक्तत्वात् इति ।
ततश्चायं शास्त्रार्थः-साग्निदग्नि नियोजयेदनग्निवेद्दर्भपुष्टि
नियोजयेदिति ।

एकस्मिन् ब्राह्मणे दैवे साक्षिरग्निर्भवेत्सदा ।
अनग्नेः कुशमुष्टिः स्यात् श्राद्धकर्मणि सर्वतः

इति प्रचेतसा स्मरणात् । तथा पारस्करोऽपि

“दर्भवदुर्वेदितव्यो दैवे" इति । दर्भचदुर्दर्भमुष्टिः। वाशिष्ठेन
विशेष उक्तः -

“यवेकं भोजयेच्छुद्धे दैवे तत्र कथं भवेत् ।
अन्नं पात्रे समुद्धृत्य सर्वस्य प्रकृतस्य च ।
देवतायतने कृत्वा ततः श्राद्धे प्रकल्पयेत् ।
प्रास्येदन्नं तदग्नौ तु दद्याद्वा ब्रह्मचारिणे ।

प्रास्येत् प्रक्षिपेत् । ब्रह्मचारिपदं विशिष्ट-ब्राह्मणोपलक्षणपरम्।

वैदिकं कर्म ब्रह्म । अनेकब्राह्मणलाभे तु श्रोत्रियं मुख्यासने नि
योजयेत् । सा च तादृशी योजना परस्परं ब्राह्मणैरैवं कार्या ।
तथोक्तं सुमन्तुना

‘विद्यातपोऽधिकानान्तु प्रथमासनमिष्यते ।
पङ्कन्यां चैव निविष्टायां समं गन्धादिभोजनम् ।