पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१२५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


१२५
श्राद्धसारे श्राद्धकालः

र्थमुदकं दद्यात् । तत्र मार्कण्डेयः

ततः स्नानानन्तरमेताघकर्म कर्तव्यमिति प्राह यमः
“ततः स्नात्वा निवृत्तो यः प्रत्युत्थाय कृताञ्जलिः ।
स्नातः स्नातात्समाहूतान् स्वागतानर्दयेत्पृथक् ।।
स्थितो देशे विविक्ते तु प्रकीर्य तिलबहिपीति ।

अनेन प्रकारेण स्नातान् ब्रामणन् स्त्रय च स्नातः सन्नह्य

श्रद्धं प्रारभेत् । अत्र सर्व दैवं प्रादक्षिण्येन कार्यम् । पित्र्यं
च सव्येन विना परिवेषणम् । तथा च गृह्यसूत्रकाराः–‘प्रादक्षि
ण्येन सर्वं कार्यमनिधनात् अद्ध परिसमाप्त रिति । तथा—
मनुरपि

“प्राचीनावीतिनां सम्यगपसव्यमतन्द्रिणा ।
पित्र्यमानिधानात्कार्यं विधिवद्दर्भपाणिनाथ् ।

अयमर्थः-पित्र्ये कर्मणि परिवेषणमन्तरेण यत् पित्र्यं

तदपसव्यपितृतीर्थाभ्यामेवेति । अतन्द्रिण अनलसेन । पित्र्य
ग्रहणं दैविकं सर्वमपि प्रादक्षिण्येन यज्ञोपवीतेन दैवतीर्थेन च
कार्यमिति ऋचयति । अत्र सर्वे श्राद्धमपसव्येनैव समापनीयतया
प्राप्तं तथापि मुक्तस्तोत्रजपादि ब्राह्मणविसर्जनादि परिवेषणं च
सव्येनैवानुतिष्ठेव । तदाह जमदाग्निः —

अपसव्येन कर्तव्यं सर्वं श्राद्धं यथाविधि ।
भुक्तस्तोत्रं जपं मुक्त्वा विप्राणां च विसर्जनम्" इति ।

सूक्तं दातारो नोऽभिवर्द्धन्तामिति , तथा शिवा आपः सन्त्वि

सैयादि चेति स्तुतिः स्तोत्रं, सप्तव्याधा दशार्णेष्वित्यादि गयामशंसा,