पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२४
नृसिहप्रसादे

रूप्यं दर्भातिल गावो दौहित्रश्चाष्टमः स्मृतः” इति ।
तथा
“श्राद्धे त्रीणि पवित्राणि दौहित्रः कुतपस्लािश्इति ।
छं तापयतीति कुतपः ।

“पापं कुत्सितामित्याहुस्तस्य सन्तापकारकम् ।
अष्टावेते यतस्तस्मात्कुतपा इति विश्रुता" इति स्मरणात् ।
तथा भोजनार्थमध्यार्थे च पाराजतताम्रकांस्यपात्राणि ।

पर्णानि पलाशस्यैव ।

“न मृन्मयानि कुर्वीति भोजने देवपित्र्ययोः ।

पलाशेभ्यो विना न स्युः पर्णपात्राणि भोजने" इत्यत्र

स्मरणात् । अध्यर्थं वन्यपर्णानि निषिद्धानि खादिरौदुम्बराण्यर्ध
पात्राणि ।

“अथवा मृन्मयानि स्युरषि पर्णपुटास्तथे"ति स्मरणात् ।
वस्त्राणि च ब्राह्मणार्थे कौशेयक्षौमकापसदुकूलानि ।
"कौशेयं क्षौमकापसं दुकूलमहतं तथा ।

श्राद्ध एतानि यो दद्यात् कामानाप्नोति पुष्कलान् इति

स्मृते । तस्मात्पूवक्तदर्भादिमेक्षणान्तं द्रव्यं सम्पाद्य स्नघा
शुक्लवस्त्रपरिधानं कुर्यात् ।

“स्नातोऽधिकारी भवति दैवे पित्र्ये च कर्मणि” इति,
“श्राद्धकृच्छुक्लवासाः स्यादि' ति च स्मरणात् ।
पाद्यमाचमनीयं च स प्रयच्छेद्यथाविधि ।

कृताञ्जलिः ( पाद्यमाचमनीयं च ) स्वागतमित्युक्त्वाऽऽचपन