पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२१
श्राद्धसारे श्राद्धद्रव्याणि

अत्र रक्तवर्णनिषेधो जलव्यतिरिक्तविषयः ।
‘‘जलोद्भवानि देयानि रक्तान्यपि विशेषतः इति वचनात् ।

“वर्जयेदुर्गन्धानि कण्टकजातानि रक्तानि पुष्पाणि च सितानि

सुगन्धीनि कण्टकजातान्यपि दद्यादिति विष्णुस्मरणाच्च ।
तथा मत्स्यपुराणेऽपि

‘‘पद्मविल्वार्कधत्तूरपारिभद्राटरूषकाः ।।
म देयाः पितृकार्येषु पयश्वजाविकं तथा ।
पारिभद्रो मन्दारः। आटरूष आढरूपः ।
‘‘प्रयुकाण्डश्चनिफा राजमभाषकुसुम्भिका ।

पञ्चविल्वाङ्गधनूरे"ति । काण्डध्वनिकेति वीविशेषः ।}}

अथ धूपः ।
विष्णुधर्मोत्तरे

‘धूपो गुग्गुलुजो देयस्तथा चन्दनसारजः।
अगुरुश्च सकपॅरस्तुरुक्रश्च तथैव च ” ।

तुरुकेहि सुगन्धिधूपस्याभिधानम् । तुरुष्कः इमलिवृक्ष

इति वा ।

“चन्दनागुरुणी चोभे तमालोशीरपत्रकम् ।
धूपे च गुग्गुलुः श्रेष्ठः तुरुष्कत्वक् तथैव च ।
तमालो वृक्षविशेषः । उक्तमन्यत् ।


‘सघृतं गुगुरुं धूपं पितृणां यः प्रयच्छति ।
अश्वमेधफलं तस्य दीपदस्य तथैव च ।