पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२१
नृसिहप्रसादे

मार्कण्डेय

‘‘जातौ च सर्वदा देया मलिका क्षेतयूथिका ।
जलोद्भवानि सर्वाणि कुसुमानि च चम्पकम् ।

एवं तुलसीविषये

"पितृपिण्डार्चनं आखें चैः कृतं तुलसीदलैः।
प्रणीताः पितरस्तेन यावच्चन्द्रार्कमेदिनिए ॥
अत्र जातीकुसुमं न देयम् ।

‘न जातीकुसुमानि दद्यान्न कदलीपत्रमिति अङ्गिरसा निषेधा

भिधानात् ।
तथा क्रतुरपि निषेधति

“असुराणां कुले जाता जाती पूर्वपरिग्रहे ।
तस्या दर्शनमात्रेण निराशाः पितरो गताः इति ।

अत्र जातीकुसुपनिषेधो वैकल्पिक इति यम् , क्रतुषु

( निषेधो मार्कण्डेये विधिः। अतो विहितप्रतिषिद्धत्वाद्विकल्प एव
न्याय्यः । तानि पुष्पानि करवीरव्यतिरिक्तानि, करवीराणां
निषेधात् । तथा च स्मरन्ति शिष्टाः
तुलसी भृङ्गराजं शमीपत्रं कुशपत्रं पुष्पादीनि च दद्यात्
करवीराणि न दद्यात्’ इति ।
तत्र वज्यनोइ विष्णुः

“उग्रगन्धीन्यगन्धीनि चैत्यवृक्षोद्भवानि च ।
पुष्पाणि वर्जनीयानी रक्तवर्णानि यानि च ।
चैत्यवृत्तोद्भवानि श्मशानदेशवृक्षोद्भवानि ।