पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/११९

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


११९
श्राद्धसारे श्राद्धकालः

तथा च स्मयन्तर

“नागन्धं न दुर्गन्धं न कृष्णं नात्यल्टं च दद्यादिति विष्णुः ।


“श्वेतचन्दनकर्परचन्दनानि शुभानि च ।
विलेपनार्थं दद्यात्तु यदन्यन् पितृवदभम्” इति ।


‘‘सपवित्रेण हस्तेन दयाह्न्धानुलेपनम् ।
एकवासाश्च यो दद्यान् निराशाः पितरो गताः इति ।

ब्राह्मणानामपि कश्चिन्नियमः

‘‘ललाटे पुण्ड्रकं दृष्ट्वा स्कन्धे माला तथैव च ।।
निराशाः पितरो यान्ति दृष्टा च वृषलीपतिम्’’ इति ।

पुण्ड्रनिषेधस्तु तिर्यक् पुविषयः नोर्वपुण्ड्रविषय

ता तस्य कल्पयितुं शक्या, तस्य सर्वदा विहितत्वात् । प्रति
पादितमेतन्नित्यप्रकरणे सम्यक्तया ।
तथा श्राद्धदेशे । श्वमार्जारकुकुट्शूद्रपतितव्यङ्गोन्पत्ताचारहीन
कृष्णाविककृष्णायसरक्तवासांसि दुरतो निःसारयेदिति ।
अथ पुष्पाणि ।
अत्र पद्मोत्पलानि शुक्लेतराण्यपि देयानि । अत्र विष्णुः
‘‘जलजानि रक्तान्यपि दद्यात् । तदुक्तं ब्रह्माण्डपुराणे

“शुक्लाः सुमनसः श्रेष्ठास्तथा पद्मोत्पलानि च ।
गन्धवणपपनानि यानि चान्यानि कृत्स्नशः” इति ।