पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११८
नृसिहप्रसादे

भिधेयत्वम् , एकैकस्प्रिन् श्रद्धशब्दस्यौपचारिकत्वात् । विच्छित्चि
च न कारयेदित्यस्यायमर्थः । ब्राह्मणभोजनस्य कर्तुमसामथ्र्यं तत्र
पिण्डदानमात्रमपि कर्तव्यम् । सर्वथाऽपि कर्मविच्छेदो न कर्तव्य
इति । तथा च निगमः
ग्राहिताग्नेः पित्रर्चनं पिण्डै रेव ब्राह्मणानपि वा भोजयेदिति।
अत्र व्यवस्थावाचको वाशब्दः व्यवस्था चैतादृशी-सत्यां शक्तौ
ब्राह्मणतर्पणपिण्डदानेऽनुष्ठेये, अशक्त्या तु पिण्डदानमात्रमिति ।
इति श्रीमद्युदमीदृसिह चरणयुगलसरोरुहभ्रमरसकल भूमण्ड
लमण्डन समस्तयघनाधीश्वर श्री निजामसाह समस्तराज्यधुरन्धर
श्रीमन्महाराजाधिराज श्री दलपतिराजविरचिते श्री नृसिहस्र
सादे श्राद्धसारे श्राद्धभेदादिनिर्णयः ।

अथ गन्धादीन निर्णयः


विष्णुः
“चन्दनकर्तृकुङ्कुमनागरपञ्चकान्यनुलेपनायः इति । दद्य -
दिति शेषः ।
तत्र मरीचिः

“कर्नूरकुङ्कमोपेतं सुगन्धं सितचन्दनम् ।
दैविके त्वथवा पित्र्ये गन्धदने प्रशस्यते

डट

“चन्दनागुरुकर्ररकुङ्कमानि प्रदापयेत् ।
अश्वमेधमवाप्नोति पितृणामुपलेपनात्” ।

तस्मात्सुरभि चन्दनं देयम् ।