पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/११७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


११७
श्राद्धसारे श्राद्धकालः

‘श्रद्धविने समुन्यन्ते स्वविज्ञाते मृते हृनि ।
एकादश्यान्तु कर्तव्यं कृष्णपक्षे विशेषतः।

इति मरीचिस्मरणात् ।

अत्रैवमन्वयः । कृष्णपक्षनिष्ठा या एकादशी तस्यां विशेषतः
कर्तव्यमिति । पितृकार्येषु कृष्णपक्षस्यैव विशेषेण ग्रावत्वात् ।
कृष्णैकादशीतोऽषि अमावस्याया मुख्यत्वे पितृकार्येषु दण्डापू
पन्यायसिद्धं बोध्यम् । अयमाशय –सर्वथा ह्यशोचसममन्तरकालो
मुख्यः कालः स एव सन्निकृष्टत्वेन ज्यायान् , अमावास्याकालस्तु
जघन्यः, मुख्यकालभत्यासस्यभावात् । अनेनैवाभिप्रायेणोक्तया
नृष्यङ्गः

“श्चभूतेन दातव्यं या तिथिः प्रतिपद्यते ।
सा तिथिस्तत्र कर्तव्या न चान्य वै कथञ्चन” इति ।

ततश्चायं तात्पर्यार्थः-शुद्धस्य श्रद्धाख्यता आवश्यकी ।

तत्राशौचघशात् मुख्यकाले शुद्धयसंभवेऽशुद्धयनन्तर या तिथिः प्र
तिपद्येत सा तिथिस्तस्य कर्मणोऽङ्गतया उपादेया । अन्य मुख्या
तिथिः कदाचिदपि नोपादेया । आशौचादूषिता तु मुख्या तिथिः
सदाऽनुष्ठेया

‘तिथिच्छेदो न कर्तव्यो विनाऽऽशौचं यदृच्छया।

पिण्डं श्राद्धे च दातव्यं विच्छित्ति न च कारयेदिति स्मरणा

द । चकारो ह्यग्नौकरणसमुच्चयार्थः । ब्राह्मणतर्पणमात्रमत्र
श्राद्धशब्दाभिधेयम् पिण्डदानस्य पृथगुपादानात् ।
वस्तुतस्तु ब्राह्मणभोजनपिण्डदानहोमसमुदायस्य श्रद्धशब्दा