पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११६
नृसिहप्रसादे

अन्यस्मिन्यज्ञे वा तत्तिथौ वेति । तत्र प्रथमपक्षस्त्वविरुद्ध एव ।
पुनस्तदहरेवेति पक्षविहितं सुतकव्यतिरिक्तनिमित्तान्तरोत्पन्ने विप्ने
प्रतिमासं क्षयाहविहितैकोद्दिष्टमासिकश्राद्धविषयमिति पूर्वोक्तवचना
विरुद्ध इति व्यवस्था ज्ञाप्यते ।

एकोद्दिष्टे तु सम्प्राप्ते यदि विन्नः प्रजायते ।
अन्यस्मिस्तत्तिथौ तस्मिन् श्राद्धं कुर्याद्यथाविधि।

इति देवलस्मरणात् ।

अन्यस्मिन्नन्तरे मासि ततिथौ श्रुतितिथौ यस्मिन् शुक्ले
सृष्णे वा मृतस्तस्मिन्पक्षे, आठं विनवशादतिक्रान्तं कुर्यादित्यर्थः ।
शाशौचनिमित्तेन विप्ने जाते मासिकं श्राद्धमपि मृतकानन्तरमेव
घचनबलादनुष्ठेयम् । देवस्वामो च एवमेव व्यवस्थां कृतवान् ।
यत्तु व्यासेनोक्तं--

“श्राद्भविने समुत्पन्ने त्वन्तरा मृतमूतके ।
अमावस्या प्रकुर्वीत शुद्धावेके मनीषिणः ।

अन्तरा मृतसूतके श्राद्धप्रयोगमध्ये पाकोपक्रमात् प्राक् घृत

के सूतके वा जाते अमावास्याम् अमावास्यायां शुद्ध शुद्धयनन्त
रं वा अनुष्ठेयमिति, इदमपि अनुमासिकसांवत्सरिकश्राद्धविषयम् ।

"मासिकेऽब्दे तु सम्प्राप्ते त्वन्तरा मृतसूतके ।
वदन्ति शुद्धौ तत्कार्यं दरौ वाऽपि विचक्षणः

इति षत्रिंशन्मतवचनात् । दर्शग्रहणन्तु शुक्लकृष्णैकाद

शंयोरुपलक्षणार्थम् ,