पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/१२२

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


१२२
नृसिहप्रसादे

गुग्गुलुविधौ धृतग्रहणं मधुन उषलक्षणार्थम् ।
"घृताद्वा तिलतैलांद्वा नान्यद्यनु दीपकम्" इति स्मरणात् ।

विकल्यस्तु सम्भवासम्भवाभिप्रायेण ।

तथैवाभिहितं विष्णुधर्मेजरे

“धूपार्थे गुगुलं दद्याद् घृतयुक्तं मधूकटम् इति ।

प्राण्यङ्गधृषनिषेधस्तु विष्णूक्तः । “जीवजं च सर्वं न धूपा

थैमि"ति । जीवजं कस्तूर्यादि । चन्दनकुङ्कमकपॅरागुपदकान्यनुले
पनार्थ इति ।
दीपविषये शङ्कः

“घृतेन दीपो दातव्यस्तथा चान्यौषधीरसैः ।
वसामेदोद्भवं दीयं प्रयत्नेन विवर्जयेत्’ इति ।

श्रोषधीरसैरित्यत्र दीर्घता छन्दसी । अन्योऽपि कश्चिद्विशेषः ।

तत्र कात्यायन

“लमुद्वर्तनं स्नानं दन्तधावनमेव च ।
कुतं रोमनखेभ्यस्तु दद्यात्तेभ्योऽपरेऽहनीति ।

तत्र कर्मणः स्नानादेदतुमशक्यत्वात्तकर्मणा कर्मसाधनद्र

व्यं लक्ष्यते । ततश्च स्नानसाधनं द्रव्यं देयमपि तैलमनिषिद्धति
थावेव देयम् , तत्र तैलप्रतिषेधात् । तैलस्यादेयत्वेऽपि आमलकोद
कं दद्यात् । तदपि द्वादशघटीषु वृत्तासु देयम् ।

‘‘उन्हः षट्सु मुहूर्तेषु गतेष्वथ च तान् द्विजान् ।

प्रत्येकं प्रेषयन् नेष्यान् प्रदायामलकोदकम् ' इति मार्कण्डेय

वचनात् ।