पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/११५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


११५
श्राद्धसारे श्राद्धकालः

युवानः पितरो यस्य मृनः शस्त्रंश है हनाः ।
तेन काथ चतुर्दश्यां तेषां तृप्तिमभीप्सताम् ।
श्राद्धं कुर्वन्नमावास्यां यत्नन पुरुषः शुचिः
सर्वान् कामानत्रान्नोति स्त्रों घामं समश्रुते । ।

तत्र वज्र्यानाह

‘‘नन्दायां भार्गवदिने त्रयोदश्य त्रजन्मनि ।
एषु श्रद्धं न कुर्वीत दो पुत्रधनक्षयात् ।

वृद्धगा(ग्यः—

“प्राजापत्ये च पर्णं च पित्रर्दे भार्गवे तथा ।
यस्तु श्रद्धं प्रकुर्वीत तस्य पुत्रो विनश्यति ।
प्राजापत्यं रोहिण, पोष्ण देवतो, पित्रकं मघा ।

तथा

त्रयोदश्यां कृष्णपक्षे यः श्राद्ध कुरुते नरः ।
पञ्चत्वं तस्य जानीयज्जेष्ठपुत्रस्य निश्चितम्’’ इति ।

एतत् श्राद्धं मृतिकादिना सुख्यकालातिक्रमे वाशांचापगमान

न्तरं कार्यम् । तदुक्तमृष्यगूर्जेण

“देये पितृणा श्राद्धे तु श्राशौचं जायते यदा ।
अशौचे तु व्यतिक्रान्ते तेभ्यः श्राद्धं प्रदीयते।

अत्रात्रः

‘तदहमदुष्येत केनचित्पृतकादिना ।
घृतकानन्तरं कुर्यात्पुनस्तदहरेव चेति ।
अत्र च पक्षद्वयमभिहितं मृतकानन्तरं कालान्तरं च ।