पृष्ठम्:नृसिंहप्रसादः-श्राद्धसारः.djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११४
नृसिहप्रसादे

आषाढ्याः पञ्चमः पक्षः प्रशस्तः पितृकर्मणि’

इति जाबालिस्मरणात् ।

‘‘पुत्रानायुस्तथाऽऽरोग्यमैश्वर्यमतुलं तथा ।
प्राप्नोति पञ्चमे दवा श्राद्धं कामांश्च पुष्कलान्

इति षत्रिशन्मतवचनात् । दर्शग्रहणं शुक्लकृष्णैकादश्योरु

पलक्षणार्थम् ।

‘श्राद्धविने समुत्पन्ने त्वविज्ञाते मृतेऽहनि ।
एकादश्यान्तु कुर्वीत कृष्णपक्षे विशेषतः

इति मरीचिस्मरणात् ।

अत्रैवमन्वयः-या कृष्णपक्षनिरैकादशी तस्य विशेषतः क
र्तव्यमिति, यतः पितृकार्यं कृष्णपक्षस्यैव विशेषेण ग्राह्यत्वात् ।
कृष्णैकादशीतोऽपि अमावास्यायां फलविशेषः श्रूयते । मार्कण्डेयः —

“प्रतिपद्धनलाभाय द्वितीया हि प्रजाप्रदा ।
चरार्थिनी तृतीया च चतुर्थी शत्रुनाशिनी ।
श्रिये प्राप्नोति पञ्चम्यां षष्ठयां पूज्यो भवेन्नरः।
गणाधिपत्यं सप्तम्यामष्टम्यां बुद्धिमुत्तमाम् ।
शिवं नवम्यां प्राप्नोति दशम्यां पूर्णकामताम् ।
वेदांस्तथाऽऽप्नुयात् सर्वान् एकादश्यां क्रियापरः ॥
द्वादश्यां हेमलाभं तु प्राप्नोति पितृपूजकः ।
प्रज्ञां मेधां पथं पुष्टि स्वातन्त्र्यं वृद्धिमुत्तमाम् ।
दीर्घमायुरथैश्वर्यं कुर्वाणस्तु त्रयोदशीम् ।
अवाप्नोति न सन्देहः श्रद्धे श्रद्धपरो नरः॥