पृष्ठम्:निपाताव्ययोपसर्गवृत्तिः.pdf/26

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

26. नि•ाताव्ययोपसर्गवृत्तिः तत अाद्यानन्तरयथान्तरे' ॥ १०७ ॥ अद्ये- ततः प्रववृते सर्गः । अनन्तरे- अन्नं भुङ्ते ततः शेते । यथान्तरे- ततस्ततः | कुतः प्रश्ननिह्ववयोः ।। १०८ ॥ प्रभे- कुतस्त्यः ? निह्नवे-- कुतो मे भार्या ॥ यथा योग्यतावीप्सापदार्थानतिवृत्तिसादृश्येषु ।। १०९ ॥ योग्यतायाम्- श्रुते योम्या = यथाश्रुतमस्य दक्षिणा । वीप्सायाम्येये वृद्धाः= यथावृद्धं ब्राह्मणानामन्त्रयस्व । पदार्थानतिवृतैौ-शक्तिमनतिक्रय= यथाशक्ति वक्ति । सादृश्ये- लक्ष्मीर्यथेयम् । अनुमाने प्रकारेण सिद्धम् । चैौरोऽयं यथाऽस्य श्लिष्टे भ्रुवैौ ॥ तथा समुचयाज्ञीकारनिदर्शनसादृशेजु ॥ ११० ॥ समुच्चये- हारीतोऽयमहं तथा । अङ्गीकारे- स तथेति प्रतिज्ञाय । निदर्शने- तथाहि ते शीलमुदारदर्शने । सादृश्ये- अयमपि तथा । सत्ये प्रकारेञ्च । तत्तथा न तदन्यथा । तथ्यं वितथ्यम् ॥ द्वावुद्दे (श्य ! ) शनिर्दे ( शयैौ ?) शैौपम्यकारणोपपत्तिषु ॥ १११ ॥ उद्देशे- यथाऽर्कस्तथा तेजः । निर्देशे- यथातथा (सं ? ) सान्त्वयित्वा वश्यः स्त्रीणां तथा तथा । औपम्ये- यथा अर्कस्तथा कर्णः । करणोपपतैौ- यथा विनीतस्तथा पण्डितोऽयम् ॥ कर्थ प्रक्षसंभ्रमासंभवेषु ॥ ११२ ॥ प्रश्ने- - कथमजीर्णम् ? संभ्रमे--- कथं हतः कर्णः ! . असंभवे--- कथं भीतो योत्स्यते । हर्षेऽप्याहुः । कथं क्सो मे रामभद्रः ॥ तदा अरम्मे ॥ ११३ ॥ तदाप्रभृति निस्सङ्गः ॥