पृष्ठम्:निपाताव्ययोपसर्गवृत्तिः.pdf/22

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निपताव्ययोपसर्गवृति: |ङ्गनापाङ्गभङ्गलेलं हि जीवितम् । प्राकृतोऽपि नावमन्तव्यः किमुत राजा । किंपुनब्रैझयोनेर्य: स्वभावाहाहकों बहि: किमङ्ग पवनेरित:। ) नहवै निष्ठितनिषेधावधारणे ॥ ७४ ।। नहवै सशरीरस्य प्रियाप्रिययोरपहतिरस्ति । अक्श्यं नास्त्येवेत्यर्थः ॥ नवै निषेधावधारणविशेषनिषेधयोः ।। ७५ ॥ निषेधावधारणे- नवैवेश्यासु लेहोऽस्ति । विशेषनिषेधे---नवै त एतत् प्रियमनेन नेष्यसि ॥ अथर्कि मते ॥ ७६ ॥ अपि ब्रह्मणोऽसि ।। ? अथ किम् । बाढमित्यर्थः ॥ एवमेव सामान्ये च ॥ ७७ ।। सामान्ये-एवमेव नहि जीव्यते, खलात् कापुनर्भवति कथा । मतेएवमेवैतत् । कः संदेहः ? एवमेव गतः, एवमेवागत इति वृथार्थेऽप्याहुः ॥ यदिनाम यदिपरं प्रकृत्यान्यथात्वे ॥ ७८ ॥ विप्रोसि यदिनाम मूर्खः । यदिपरं प्रेम समाप्तोत्सवम् । यदिनाम कुले जन्मेति द्वैौ स्वार्थे ॥ यदुत वाक्यार्थनिर्देशे ॥ ७९ ॥ वाच्योऽसौ यदुत ग्रामं गच्छ ॥ प्रत्युताऽतोऽन्यथात्वे ॥ ८० ॥ धृतमिव गतपद्याः प्रत्युतात.कारेि ॥ यथाकथञ्चिद्यथाकथाचानादरे ॥ ८१ ॥ यथाकथञ्चित्वा गां दाता स्वर्गे महीयते । यथाकथाच दीयते । यथाकथाच भिक्षा नप्राप्ता । यथाकथाच हस्ताभ्याम् .... .... .... यतौ ॥ इतिह प्रवादे ॥ ८२ ॥ इतिहाऽकरोत् । इतिह साहुः ॥