पृष्ठम्:निपाताव्ययोपसर्गवृत्तिः.pdf/15

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निपातकाण्डम् V) हुं स्मृतिभ्रुकुटिभयविकार (णः) भर्त्सनेषु ॥ ३२ ॥ स्मृतौः- हुं सत्यं चैत्रः । भ्रुकुटया क्रोधः सूच्यते । हुं हन्मि त्वाम् । हुइारः । भये- हुं राक्षसोऽयम् । विक(रणे !)रे- हुं हुं मुख। भत्र्सने- हुँ निर्लज । हो प्रतिवाक्ये ।। ३३ ॥ हो किं करवाणि । अहो अहह बत खेदाद्भुतयोः ॥ ३४ ॥ खेदे- अहो प्रमादः । अहह महापातकिन्। अहहो इत्यप्यहुः । अहहो चक्षुः कृतन्ने कियत्। बत सीता हृता बलात्। अहो बत महत् कष्टमिति प्रकर्षसमुदायः। अहो बतासि स्पृहणीथवीर्यः । अद्भुते- अहो आथर्यम्। अहह प्रज्ञा सताम् । चित्र हृद्य(नत ')नमत बत। अनुकम्पासंतोषी खदादुलेप। कत निन्योऽसि | बत जीवामः | ही भर्त्सने च ॥ ३५ ॥ भर्सने- ही जाल्म । खेदे-ही नविद्मी जडा क्यम्। अद्भुतेहतविधिलसितानों ही विचित्रो विपाकः। प्रीतिरद्भुतमेव। ही ही जितं मया। हीहीभोः इति प्राकृते निपातसमुदायः ॥ हा शेोकखेदनिन्दासंभ्रमे' ॥ ३६ ॥ शोके- हा। प्रिये ! जनकराजपुत्रि । खेदे- स्फुरदुरुहरमणीनां हा रमणीनां गतः कालः। निन्दायाम् - हा श्रोलियान।हृदयान। संभ्रमे- हाहा कि पुरोधाः । विस्मयेऽस्य प्रयोगो दुरुपपादः । अमन्त्रणे शोकगर्भत्वात् सिद्धम् ॥ ओं प्रारम्भाङ्गीकारान्तभक्षः ॥ ३७ ॥ प्रारम्मे- ओों अमिमीडे पुरोहितम् । अङ्गीकरे- ओमेिर औरतोsय शाणि इति। अनुज्ञाऽङ्गीकार एव। अमी करवणि। ओं कुरु । अन्ते