पृष्ठम्:निपाताव्ययोपसर्गवृत्तिः.pdf/10

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

R निपाताच्ययोपसर्गतेि: हन । अन्वचिये - भिक्षामट गाखानय । गवानयनमलाsपधानम् । तुल्ययोगितायाम्-- ध्यातश्चोपस्थितश्च । हेतौ-ग्रामो न गन्तव्यः शीतं च । शीतात् कथं गच्छामीत्यर्थः । पूरणेऽप्याहुः । यथा- भीमः पार्थस्तथैक्च । रातौ नैवच नैवच । चीयद्यर्थे । त्वं चागमिप्यसि कृतार्थाः स्मः । त्वं यद्यागमिप्यसी त्यर्थः । कारुः कुवेिदश्च । यद्यर्थ इति विशेषार्थः ॥ वा किल्पापमानद्वन्द्वसंचयेषु ॥ ३ ॥ विकल्पे- यवैर्वा त्रीहिभिर्वा यजेत । उपमायामू - आशीविषो वा संकुद्रः सूर्योत्राऽत्र विनिर्गतः । भीमोन्तकी वा समरे गदापाणिरदृश्यन । द्वन्द्रेसा व शम्भोस्तदीया व मूर्तिर्जलमयी मम। नतृतीयेत्यर्थः । समुचये- वायुर्वा खा मनुर्वी त्वा ॥ अह क्षिपदेशयोः ॥ ४ ॥ क्षिपायम्- स्वयमहाऽश्वेन याति गुरुं पदर्तिं भामयति । अदेशेअयमहाऽरण्यं यातु ॥ प्रशंसाथामप्याहुः । अह बाले वति । उत्कृष्टं वक्तीत्यर्थः ॥ ह आगमे च ॥ ५ ॥ आगमे- इति हस्माहुः । क्षिपायाम्-- स्वयं ह ओदनं भुङ्क्ते गुरुं सक्तून् पाययति । आदेशे- त्वं ह ग्रामं गच्छ (सि ? ) । निन्दायामप्याहुः । त्वं ह ब्राह्मणः । त्वमपि किं ब्राह्मण इत्यर्थः ॥ एवावधारणनियोगयोः ॥ ६ ॥ अवधारणे-- स्वमेव देव जानासि। नियोगे- अचैव आवां रणमुपागतौ । अनवक्लप्ताक्प्याहुः । चैत्र केव भोक्ष्यसे ॥ एवं निश्चयाङ्गीकारेष्ठएएदेशनिर्देशेषु ॥ ७ ॥ निश्चये -- एवमित्थं यथात्थ त्वम् । अङ्गीकरे--एवं कुर्मः । प्रकरे यथामिरेव विमः । प्रकृतपरामशें- एवं वादिनि देवाँ। उपदेशे- एवं पठ। निर्देशे- एवं तावत् ॥