पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ९]
५९
जगत्सृष्टिमकारवर्णनम् ।


अपरिच्छिन्नमहिमा त्वं मम रोगराशिं निरुन्धि मम दुष्कृतैरितःपरमप्यागच्छन्तं व्याधिनिवहं निवारयेत्यर्थः ॥ १३ ॥

इति प्रलय-जगत्सृष्टिप्रकारवर्णनम् अष्टमं दशकं सत्रिकम् ।

 एवमुत्पन्नस्य ब्रह्मणः प्रवृत्तिं कथयति-

स्थितः स कमलोद्भवस्तव हि नाभिपङ्केरुहे
 कुतः स्विदिदमम्बुधावुदितमित्यनालोकयन् ।
तदीक्षणकुतूहलात् प्रतिदिशं विवृत्तानन-
 क्ष्चतुर्वदनतामगाद् विकसदष्टदृष्टयम्बुजाम् ॥ १ ॥

 स्थित इति । स हि कमलोद्भवः तव नाभिपङ्केरुहे तत्कर्णिकायां स्थितः सन् इदम् अम्बुजं कुतः कस्मादधिष्ठानात् । स्विदिति वितर्के । अम्बुधौ एकार्णवे उदितम् उत्पन्नम् इत्येतदनालोकयन् अजाजन् तदीक्षणे अम्बुजस्योत्पत्तिस्थानर्वाक्षिणे कुतूहलात् कौतुकात् प्रतिदिशं चतसृषु दिक्षु विवृत्तं विवलितम् आननं यत्य स तथा । चतुर्वदनतामगादिति । चतसृषु दिक्षु युगपद्वीक्षणकौतुके सति चत्वारि च वदनान्यभूवन्नित्यर्थः । विकसन्ति उन्मीलितानि अष्टौ दृष्ट्यम्बुजानि नेत्रकमलानि यस्यास्तां चतुर्वदनतामगादिति[१] सम्बन्धः ॥ १ ॥

महार्णवविघूर्णितं कमलमेव तत् केवलं
 विलोक्य तदुपाश्रयं तव तनुं तु नालोकयन् ।
क एष कमलोदरे महति निस्सहायो ह्यहं
 कुतः स्विदिदमम्बुजं समजनीति चिन्तामगात् ॥ २ ॥

 महार्णवेति । महार्णवे विचूर्णितं कम्पितं केवलं तत् कमलमेव विलोक्य तदुपाश्रयं तदधिष्ठानं तत्र तनुं तु नालोकयन् अपश्यन् इति इत्थं चिन्तामगात् । चिन्ताप्रकारमाह- क एष इति । महति कमलोदरे निस्सहाय एषोऽइं ह्येव कः । किञ्चेदमम्बुजं कुतःस्वित् समजनीत्येवं चिन्तामगात् ॥ २ ॥

 पुनश्चैवं निश्चित वानित्याह-

अमुष्य हि सरोरुहः किमपि कारणं सम्भवे-
 दितिस्म कृतानिश्चयः स खलु नालरन्ध्राध्वना ।


  1. 'त्यर्थः ॥' क. पाठः.