पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५८
[स्कन्ध:- ३
नारायणीये


 तत इति । अयि ! भगवन् ! ततः तव विलोकनानन्तरं त्वदीयाद् नाभिरन्ध्रात् किञ्चन दिव्यं प्रकाशबहुलत्वात् सत्त्वमयं पद्मम् उदञ्चितम् उद्भूतम् । निश्शेषाणां जीवतदुपभोग्यानां पदार्थानां माला समूहः, तस्य सङ्क्षेपः सूक्ष्मरूपेणा- वस्थानं तद्रूपं निश्शेषप्रपञ्चबीजरूपमित्यर्थः । मुकुलायमानं मुकुलावस्थया स्थितम् ॥ १० ॥

तदेतदम्भोरुहकुड्मलं ते कलेवरात् तोयपथे प्ररूढम् ।
बहिर्निरीतं परितः स्फुरद्भिः स्वधामभिर्ध्वान्तमलं न्यकृन्तत् ॥ ११ ॥

 तदेतदिति । तदेतदम्भोरुहस्य कुड्मलं मुकुलं ते तव श्रीनारायणस्य कलेबरात् शरीरात् तोयपथे परितो जलावृतत्वाजलप्रदेशे प्ररूढम् अङ्कुरितम् । क्रमाज्जलमतिक्रम्य बहिर्निरीतम् । ततश्च परितः स्फुरद्भिः स्वधामभिः निजदीप्तिभिः ध्वान्तमलं तमोरूपं मलं, यद्वा अलम् अतिशयेन ध्वान्तं न्यकृन्तद् उन्मूलितवदित्यर्थः ॥ ११ ॥

संफुल्लपत्रे नितरां विचित्रे तस्मिन् भवद्वीर्यधृते सरोजे ।
स पद्मजन्मा विधिराविरासीत् स्वयंमबुद्धाखिलवेदराशिः ॥ १२ ॥

 सम्फुल्लपत्र इति । सम्यक् फुल्लानि विकसितानि पत्राणि दलानि यस्मिस्तत् तथा नितराम् अतिशयेन विचित्रे असामान्ये भवत ईश्वरस्य वीर्येण योगचलेन धृते प्रतिष्ठिते तस्मिन् सरोजे स त्वमेव विधिराविरा[१]सीद् ब्रह्मणो रूपं गृहीत्वा प्रावि[२]शदित्यर्थः । अत एव पद्मजन्मेति नामाप्यासीत् । किञ्च स्वयम् उपदेशनिरपेक्षं प्रबुद्धाखिलवेदराशिः अर्थावबोधपर्यन्तमवगतनिगमसमूहः, स्वतः सर्वज्ञश्चाभूदित्यर्थः ॥ १२ ॥

अस्मिन् परात्मन् ! ननु पाद्मकल्पे त्वमित्थमुत्थापित पद्मयोनिः ।
अनन्तभूमा मम रोगराशिं निरुन्धि वातालयवास! विष्णो ! ॥ १३ ॥

 अस्मिन्निति । परात्मन् ! हे परमात्मन्! जगत्कारणभूत ! अस्मिन् ननु पाद्मकल्पे इत्थमुक्तप्रकारेण उत्थापितः सृष्टः पद्मयोनिर्येन स तथा अनन्तभूमा


  1. 'सी: ब्र' ख. पाठः,
  2. 'श इत्य' ख. पाठः