पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६०
[स्कन्धः - ३
नारायणीये

सयोगवलविद्यया समवरूढवान् प्रौढधी-
 स्त्वदीयमतिमोहनं न तु कलेबरं दृष्टवान् ॥ ३ ॥

 अमुष्येति । अमुण्य मदधिष्ठितस्य सरोरुहः सरोजस्याधस्तात् किमपि कारणम् अधिष्ठानं सम्भवेत् । सम्भावनायां लिङ् । इतिस्म कृतनिश्चयः स खलु ब्रह्मा नालरन्ध्राध्वना कमलदण्डस्य रन्ध्रं सुषिरमेव अध्वा मार्गः, तेन समवरूढवान् अवरोहणं कृतवान् । कथमस्यैतदुपायबोध इत्यत आह - प्रौढधीरिति । प्रौढा ऊहापोहनिपुणा धीर्यस्य स तथा । ननु बुद्धिसामर्थ्ये सत्यपि सुसूक्ष्मरन्ध्रप्रवेशः कथं सम्भवेदित्यत आह - सयोगबलविद्ययेति । योगबलं तपोबलं विद्या आत्मज्ञानम् | योगबलसहितया विद्ययेति । तपसा विद्यया च प्राप्तैश्वर्यतयातिसूक्ष्मशरीरो भूत्वा तत्सरोरुहनालरन्ध्रं प्रविष्टयानित्यर्थः । तद[१]पि त्वदीयमतिमोहनं लोकोत्तरसौन्दर्ययुक्तं कलेबरं[२] मूर्ति बहिर्मुखैर्व्यापारैर्दुप्पापं न तु दृष्टवान् नैव ददर्श ॥ ३ ॥

ततः सकलनालिकाविवरमार्गगो मार्गयन्
 प्रयस्य शतवत्सरं किमपि नैव सन्दृष्टवान् ।
निवृत्य कमलोदरे सुखनिषण्ण एकाग्रधीः
 समाधिबलमादधे भवदनुग्रहैकाग्रही ॥ ४ ॥

 तत इति । ततः अनन्तरं सकलानि नालिकाविवराणि नालरन्ध्राण्येव मार्गाः, तान् गच्छतीति सकलनालिकाविवरमार्गगः मार्गयन् अन्वेषणं कुर्वन् । अयमर्थ:- कमलनालस्य बहुरन्ध्रत्वादेकेन रन्ध्रेणावरुह्यान्विष्यादृष्ट्वा पुनरन्येन पुनश्चान्येनैवमतन्द्रितोऽन्विष्टवानित्यर्थः । एवं शतवत्सरं दिव्यसंवत्सराणां शतं प्रयस्य प्रयासं कृत्वा कमलस्याश्रयत्वेन किमपि वस्तु नैव सन्दृष्टवान् । निवृत्येति ईश्वरस्यानुग्रहं विना किमपि ज्ञातुं कर्तुं वाशक्यमिति निश्चित्य बहिर्मुखात् प्रयासान्निवृत्य विरम्य कमलोदरे सुखनिषण्ण इत्यष्टाङ्गोपलक्षणम् । एकाग्रधीरिति धारणोच्यते । समाधिबलं समाधेश्चितैकाग्र्यस्य बलम् अचाञ्चल्यम् आदधे कृतवान् । भवदनुग्रह एकस्मिन्नेवाग्रहोऽस्यास्तीति भवदनुग्रहैकाग्रही ॥ ४ ॥


  1. 'था' क. पाठः,
  2. 'रं ब' ख. पाठः,