सोऽयं चतुर्युगसहस्रमितान्यहानि |
स इति । सोऽयं ब्रह्मा चतुर्युगाणां सहरत्रसङ्खयया मितानि परिच्छिन्नानि अहानि दिनानि कल्पाख्यानि तावन्मिताः तत्समप्रमाणा रजनी रात्रीश्च बहुशो निनाय बहुवारं नीतवान् । असौ खसृष्टैश्चराचरैः समं सह त्वयि श्रीनारायणे निलीय निद्रातीति, अहःक्षये हि ब्रह्मा स्वमृष्टं चराचरं सङ्गृह्णन्नेकार्णवेऽहीन्द्रतल्पमधिशयानेन श्रीनारायणेन सहैकीभूय निद्रां गच्छति । अतः प्रलयस्य ब्रह्मणः स्वापनिमित्तत्वादस्य रात्रिं नैमित्तिकप्रलयमाहुर्वदन्तीति ॥ २ ॥
अस्मादृशां पुनरहर्मुखकृत्यतुल्यां |
अस्मादृशामिति । स पुनर्ब्रह्मा अस्मादृशामहर्मुखे यानि कृत्यानि शौचाचमनप्राणायामसन्ध्यावन्दनजपहोमादीन्यनुदिनमनुष्ठेयानि कर्माणि, तत्तुल्यां सृष्टिं सोऽपि भवत्प्रसादादनुदिनं करोति । अत्र च प्राक् पूर्व ब्राह्मे कल्पे जनुर्जन्म येषां ते तथा, परम् अतिचिरकालम् आयुर्येषां तेषां मार्कण्डेयादीनामपि तदा नैमित्तिकपल्यावसाने सुप्तप्रबोधनसमा स्वापप्रबोधतुल्या। ननु तेषामपि ब्रह्मण इव सुप्तप्रबोधौ[१] स्त इत्येव वाच्यम् । किमिति कल्पादौ सृष्टिरस्तीत्युच्यते, मैवं, तेषां ब्रह्मणि लीनत्वात् पुनश्च ब्रह्मणैव सृष्टत्वाञ्च । ब्रह्मणः पुनः ब्रह्ममृष्टयभावात् स्वापप्रबोधावेव । ननु तर्ह्यस्मादृशामिव सृष्टिरेवास्तु, किमर्थमुच्यते सुप्तप्रबोधनसमेति, मैवं, प्राक्कल्पविषयानुस्मरणानपायात् सुप्तप्रबोधेन तुल्यत्वम् । अस्मादृशां तु तदभावात् सृष्टिरेवेति भेद इति युक्तमुक्तम् ॥ ३ ॥
पञ्चाशदब्दमधुना स्ववयोर्धरूप- |
- ↑ 'धौ न स्त' क. पाठः,