पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अथ तृतीयस्कन्धपरिच्छेदः ।


उक्तरूपेश्वरोपास्तिविघ्नजालनिवृत्तये ।
विष्णुलीलानुसन्धेया तत्र सर्गो निरूप्यते ॥

 एवं मुमुक्षूणामुपासनासिद्धये समर्था समाधिसामग्री दर्शिता । तत्र योगान्तराया व्याधिस्त्या[१]नसंशयप्रमादालस्याविरतिभ्रान्तिमनोलब्धभूमिकत्वानवस्थितत्वानि दुःखदौर्मनस्याङ्गकम्पश्वासप्रश्वासाः तत्सहभुवश्च । तत्र व्याधिर्ध्यानाकल्यता । अविरतिर्विषयेच्छा । अलब्धभूमिकत्वं समाधिभूमेरलाभः । समाधेरुत्थानदशायामेतेषां शमनार्थमिष्टावाप्त्यर्थं च भगवदवतारलीलानुसन्धानं कर्तव्यम् । तदुक्तं ---

“जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः ।
त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ! ॥" (भ.गी. अ. ४. क्ष्लो. ९)

इति । तत्र लीला दशविधा -

“अत्र सर्गो विसर्गश्च स्थानं पोषणमूतयः ।
मन्वन्तरेशानुकथा निरोधो मुक्तिराश्रयः ॥” (श्री. भा. स्क. २. अ. १०. क्ष्लो. १)

इति वचनात् । तत्रापि प्रथमं भगवतः सृष्टिलीलां तदुपयोगिनस्तत्प्रासङ्गिकांश्च वराहकपिलचतुःसनश्री रुद्रनारदमन्वादीनवतारान् दर्शयितुमारभते----

एवं तावत् प्राकृतप्रक्षयान्ते ब्राह्मे कल्पे ह्यादिमे लब्धजन्मा ।
ब्रह्मा भूयस्त्वत्त एवाप्य वेदान् सृष्टिं चक्रे पूर्वकल्पोपमानाम् ॥ १ ॥

 एवमिति । प्राकृतप्रक्षयो महाप्रलयः, तस्यान्ते अवसाने सति आदिमे ब्राह्मे कल्पे शब्दब्रह्माख्यस्येदानीन्तनस्य ब्रह्मण आदिदिनारम्भे त्वत्तो विष्णोर्लब्धजन्मा जातः सन् ब्रह्मा भूयः पुनः त्वत्त एव वेदान् ऋगादीन् आप्य लब्ध्वा पूर्वकल्पोपमानां सृष्टिं चक्रे, यथर्तुषु ऋतुलिङ्गानि एकरूपाणि तथा प्रतिकल्पं सृष्टिसाम्यमिति महाभारतोक्तेरुत्तरोत्तरेषु कल्पेषु पूर्वपूर्वकल्पसमानां सृष्टिं बहुशोऽसौ कृतवानित्यर्थः ॥ १ ॥


  1. 'ध्या' क. पाठः,