पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ७]
५३
भगवदनुग्रहवर्णनम् ।

द्वैताद्वैतं यद् भवत्स्वरूपं परावरे ब्रह्मणी, तत्परं तद्विषयं तद् यथार्थं ज्ञानम् आपादय मय्यनुग्रहेणोत्पादयेति यमाचष्ट, तं त्वां भजे ॥ ९ ॥

आताम्रे चरणे विनम्रमथ तं हस्तेन हस्ते स्पृशन्
 बोधस्ते भविता न सर्गविधिभिर्वन्धोऽपि सञ्जायते ।
इत्याभाष्य गिरं प्रतोष्य नितरां तच्चित्तगूढः स्वयं
 सृष्टौ तं समुदैरयः स भगवन्नुल्लासयोल्लाघताम् ॥ १० ॥

 आताम्र इति । ( अथ स भगवान् ?) आताम्रे अरुणसरोजवदीषत्ताम्रवर्णे चरणे विशेषणे भक्तिविश्वासबहुमानादिभिः सह नम्र नमनशीलं तं ब्रह्माणं सखा सखायमिव हस्तेन हस्ते स्पृशन् ते बोधो भविता यत् प्रार्थितं तद् ज्ञानं तवाचिरादेव भविष्यति, किञ्च सर्गविधिभिः सृष्टिव्यापारैः बन्धः शरीरबन्धोऽपि न सञ्जायत इति गिरमाभाष्य सानुसरणमुक्त्त्वा नितराम् अतिशयेन प्रतोप्य सन्तुष्टं कृत्वा स्वयं तच्चित्तगूढः तस्य ब्रह्मणः चित्त एवान्तर्हितः सन् तं ब्रह्माणं सृष्टौ समुदैरयः ब्रह्मणो हृद्यन्तर्यामिरूपेण स्थित्वा सृष्टौ तं सम्यक् प्रेरितवान् यः, स त्वं भगवन् ! उल्लाघतां ममारोग्यम् उल्लासय सम्यक् संपादयेत्यर्थः ॥ १० ॥ ४५ ॥

त्रिगुणं द्विगुणं शुद्धसत्त्वैकगुणनिर्गुणम् ।
द्वितीये सफलं रूपमुपास्यमुपवर्णितम् ॥

इति हिरण्यगर्भोत्पत्ति-तपश्चरण-वैकुण्ठस्वरूप-भगवत्स्वरूपसाक्षात्कार - भगवदनुग्रहवर्णनं

सप्तमं दशकम् ।

इति नारायणीयस्तोत्रव्याख्यायां

भक्तप्रियाख्यायां

द्वितीयस्कन्धपरिच्छेदः ।


आदितः क्ष्लोकसङ्खया ७५.