यद्यप्येतावत् पुण्यं मम नास्ति, तथाप्येतत् प्रार्थय इत्याह-
कालाम्भोदकलायकोमलरुची *चक्रेण चक्रं दिशा- |
कालेति । कालाम्भोदवत् कलायकुसुमवच्च कोमला या रुच्यः शोभाः, तासां चक्रेण मण्डलेन दिशां चक्रं मण्डलम् आवृण्वानम् आच्छादयद् उदारस्य अतिमनोहरस्य मन्दहसितस्य स्यन्देन निरन्तरप्रसरेण प्रसन्नमाननं यत्र, तत् तथा विराजमानशङ्खगदाचक्राम्बुजधारि श्रीमत् शोभानित्ययुक्तं भुजामण्डलं यस्मिस्तत् स्रष्टुर्ब्रह्मणः तुष्टिकरं हे विभो ! तव वपुर्मद्रोगं ममामयम् उद्बासयेद् उच्चाटयेद् मम मनसि त्वद्रुपमाविर्भवेद् यदि, मद्रोगाः पातकहेतुकाः पलायेरन्नेव ।
" स्मृते मनसि गोविन्दे दूरतो यान्ति पातकाः । |
इति वचनादिति तदप्याशाम्यत इत्यर्थः ॥ ८ ॥
प्रसङ्गवशादौत्सुक्येनैवमाशास्य प्रस्तुतमविस्मरन्नाह--
दृष्ट्वा सम्भृतसम्भ्रमः कमलभूस्त्वत्पादपायोरुहे |
दृष्वेति । कमलभूः ब्रह्मा तव तद् वपुर्द्दष्ट्वा सम्भृतसम्भ्रमः झटिति कर्तव्येषूपचारपूजानतिनुत्यादिष्वितिकर्तव्यतामौढ्यमापादयता सम्भ्रमेण कञ्चित् कालं किञ्चिदपि कर्तुमक्षमोऽवस्थितः सन् हर्षस्य भगवत्सन्निधानजन्यस्यावेशस्य वशंवदः अधीनश्च सन् त्वत्पादपाथोरुहे तव पादाब्जे निपतितः साष्टाङ्गं दण्डवत् पतितः। पुनश्चोत्थाय प्रीत्या कृतार्थीभवन्नित्याचष्ट उक्तवान् । हे विभो! त्वं मम मनीषितं हृद्गतं जानास्येव, सर्वजनबुद्धिसाक्षित्वात् । तथापि वक्ष्यामीत्यभिप्रायेणाह -
- कृदिकारादक्तिन इति ङीष ।