लक्ष्यते । तत्रत्यानां नयनगोचरीभवति । कीदृशी, नानादिव्यवधूजनैः बहुविधदिव्याङ्गनासहस्स्रैरभिवृता परिवारिता । विघुल्लतातुल्यया सु[१]धालिप्तविघुत्समया ।
विश्वोन्मादनहृद्या चासौ गात्रलता चेति कर्मधारयः, तथा करणेन विद्योतिताशान्तरा प्रकाशितदिगन्तराला सती । किञ्च, विस्मयनीया इतरत्रादृष्टश्रुतपूर्वाः
दिव्याः सात्त्विका विभवा उपकरणानि[२] यस्याः सा तादृशी च सती लक्ष्यत इति ।
अथ विस्मयनीयदिव्यविभवमिति चेत् पाठः, तदा ते तत् पदमिति सम्बन्धः ।
तन्मे देहि तद् वैकुण्ठपदं मामत्युत्सुकं प्रापय[३], का ते हानिरिति शेषः ॥ ६ ॥
प्रसङ्गे सति पद्यत्रयेण वैकुण्ठपदं वर्णयित्वा स्वस्य तत्प्राप्युत्कण्ठामपि प्रकाश्य प्रकृतेऽवतरति----
तत्रैवं प्रतिदर्शिते निजपदे रत्नासनाध्यासितं |
तत्रेति । तत्र तस्मिन् एवम् उक्तप्रकारेण प्रतिदर्शिते प्रसादेन प्रकाशिते, त्वयेति शेषः । निजपदे आत्मलोके विधिर्ब्रह्मा तव रूपमैक्षत दृष्टवान् । कीदृशं तदित्यत आह - रत्नासनाव्यासितं मणिसिंहासनोपविष्टं। भास्वदिति । कोटिसङ्खपरिमितादित्यबिम्बसन्निपातबल्लसद्भिः शोभमानैः किरीटकटकादिभिराकल्पैर्भूषणैर्दींप्रा आकृतिर्यस्य तत्, श्रीवत्सेन भृगुपदन्यासाङ्केनाङ्कितम्, आत्तस्य स्वीकृतस्य कौस्तुभमणे: कौस्तुभाख्यरत्नस्यच्छायया शोभया सर्वाङ्गीणया अरुणं पाटलं प्राप्तपरभागमित्यर्थः, विश्वेषां चराचराणां कारणम् उपादानकारणभूतं यत् तद् रूपं ब्रह्मा दृष्टवान् । हे विभो! विश्वव्यापिन् ! तत् तादृशं ते तव रूपं मे भातु ममापि प्रत्यक्षं भवतु[४] । इदमत्राकूतं – स्वस्थानस्थिताय ब्रह्मणे यः प्रसीदन् आत्मीयमद्भुतं बैकुण्ठलोकं, तत्र रत्नगृहे मणिमयासनोपविष्टं प्रकृष्टदिव्याकल्पप्रभापटलपाटलं स्वरूपं च [यः ] प्रदर्शितवानासि, तस्य ते मत्पुरतोऽप्येवं प्रादुर्भवितुं प्रयासो नास्त्येव । अतोऽहं प्रार्थयेतरां तन्मे भात्विति ॥ ७ ॥</poem>