त्वया ब्रह्मणे दर्शितं तत् तथाविधं वैकुण्ठाख्यं वैकुण्ठाख्यं ते तव धाम विजयते सर्वोत्कृष्ट[१]त्वेन वर्तत इत्यर्थः ॥ ४ ॥
यस्मिन् लान चतुर्भुजा हरिमणिश्यामावदातत्विषो |
यस्मिन्निति । यस्मिन् लोके दिव्याः शुद्धसत्त्वमयमूर्तयो भक्ता जना भवत्सारूप्यं प्राप्ता दीव्यन्ति द्योतन्ते । ननु किं कुर्वन्तो वैकुण्ठं गमिप्यन्तीत्यत आह – भक्तीति । फलाभिसन्धिरहितया प्रेमलक्षणया भक्त्या प्राप्तं लब्धं तथाविधम् उन्नतं च पदं स्थानं यैस्ते [२], तादृशाः सन्तो दीव्यन्तीति भगवत्सारूप्यस्य प्राप्तिः कर्मणा न भवतीति द्योतयितु[३]म् । भगवत्सारूप्यमेवाह चतुर्भुजा इत्यादि । हरिमणिरिन्द्रनीलमणिः, तद्वच्छ्यामा चासाववदाता स्वच्छा च त्विट् शोभा येषां ते । किञ्च, नानाविधेषु भूषणेषु मकुटमकरकुण्डलमञ्जीरादिषु प्रत्युप्तानीत्यर्थाद् यानि रत्नानि तैदींपितदिशो द्योतितदिगन्तरालाः । राजन्ति मणिकिङ्किणीजालमालावितानादिभिः शोभमानानि विमानानि व्योमयानानि आलया येषां ते, तादृशाश्च सन्तो दीव्यन्ति । यत्रैवं, तत् तादृशं ते तव निरस्तानि पराकृतानि सर्वाणि शमलान्यज्ञानतत्कार्याणि येन तद् वैकुण्ठरूपं धाम जयेत् सर्वोत्कृष्टतया प्रकाशतामित्यर्थः ॥ ५ ॥
नानादिव्यवधूजनैरभिवृता विघुल्लतातुल्यया |
नानेति। यस्मिन् त्वत्पादाम्बुजयोः सौरभे सौरभ्ये एककुतुकाद् अव्यभिचारिणः कौतुकादेव हेतोः लक्ष्मीः विश्वमाता महालक्ष्मर्भिगवती स्वयं [४]स्वात्मना