सामर्थ्यं भ[१]विष्यतीति मां प्रतीदगीश्वरप्रेरणामिति निश्चिन्वानेनेत्यर्थः। अनन्तर[२] च स्वाधिष्ण्यमेवाधिष्ठाय दिव्यं वर्षसहस्रमि[३]त्यत्यन्तसंयोगे द्वितीया । आत्तं स्वीकृतम् अनुष्ठितमिति यावत्, तपो येन तादृशेन तेन ब्रह्मणा आराधितः सेवितस्त्वं तस्मै ब्रह्मणे खनिलयं स्वधिष्ण्यभूतं वैकुण्ठं वैकुण्ठलोकं दर्शितवानसि । कीदृशम् एकाद्भु[४]तम् एकं मुख्यमद्भुतम् आश्चर्यम् । यस्मादद्भुतान्तरं नास्ति, तदेकाद्भु[५]तं तादृशमित्यर्थः॥ ३॥
एकाद्भुतत्वं प्रतिपादयति मायेति त्रिभिः -
माया यत्र कदापि नो विकुरुते भाते जगभ्घो बहिः |
मायेति । यत्र यस्मिन् वैकुण्ठनिलये माया कदापि ब्रह्मण उत्पत्तौ प्रलयेऽपि नो विकुरुते आत्मनः शरीरादेवेंश्वरात् पृथक्त्वेन प्रदर्शनरूपं कार्य न करोतीत्यर्थः । तथाच सति कामक्रोधादिसम्भवाभावः किमु वक्तव्य इत्याह--- शोकक्रोधविमोहसाध्वसमुखा भावास्तु दूरं गता इति । शोकः पीडा, क्रोधोऽमर्षः, विमोहः शरीरादिप्वहंममाभिमानः, साध्वसं मरणादिभयम् एतदाद्या भावाः पदार्थास्तु दूरं गताः, यस्मादिति शेषः । यत्र च सान्द्रस्य घनीभूतस्यानन्दस्य झरी प्रवाहः, वर्तत इत्यर्थात् । यत्र स्थितानां सर्वदा ब्रह्मानन्दानुभव एव भवतीत्यर्थः। ननु सत्यलोकेऽप्यस्ति लेशतः शोकः । तदेकदेशश्चेद् वैकुण्ठलोकः, कथंकारं क्लेशलेशराहित्यमित्याशङ्कायामाह – जगभ्घो बहिर्भात इति । चतुर्दशभ्यो लोकेभ्यो बहिर्भाते शोभित इत्यर्थः । अत एव परमज्योतिःप्रकाशात्मके, नात्रादित्यचन्द्रादिज्योतिषां प्रकाशः, किन्तु तेषामपि प्रकाशकं ज्योतिः परमज्योतिः, आदित्यादिप्रकाशकत्वप्रदं ज्योतिर्ब्रह्म, तदेव प्रकाशो यत्र स परमज्योतिःप्रकाशः, तदात्मके तादृशस्वरूपे । हे विभो ! विश्वव्यापिन् ! विभावितं
- ↑ 'स्यादित्यहं श्रीनारायणेन प्रेरितस्तस्य वाक्यमेतदिति निश्चिनवतेत्यर्थः ' क. ग. पाठ:.
- ↑ 'रं स्व' ख. पाठ:.
- ↑ 'मात्तेन चीर्णेन तपसा अष्टाङ्गयोगेन, आत्तं तपो येनेति वा विग्रहः । तेन ब्रह्मणा त्वमीश्वर आराधितः सेवितः, ततस्त्वं तस्मै ब्रह्मणे वैकुण्णाख्यं स्वनिलयं द' क. ग. पाठः.
- ↑ 'तं य' क. ग. पाठः.
- ↑ 'तम् ॥' ख. पाठ: