पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४८
[ स्कन्धः - २
नारायणीये

क्रमण्डलाक्षसूत्ररत्रुकेअत्रुवपुस्तकधारिणी ।
प्रसन्ना ब्रह्मणो मूर्तिश्चिन्तनीया सुरैरपि” ॥ १ ॥

सोऽयं विश्वविसर्गदत्तहृदयः संपक्ष्यमानः स्वयं
 बोधं खल्वनवाप्य विश्वविषयं चिन्ताकुलस्तस्थिवान् ।
तावत् त्वं जगतां पते ! तप तपेत्येवं हि वैहायसीं
 वाणीमेनमशिश्रवः श्रुतिसुखां कुर्वंस्तपःप्रेरणाम् ॥ २ ॥

 स इति । सोऽयं विश्वेषां चराचराणां विसर्गे गुणवैषम्याद् विविधे सर्गे सृष्टौ दत्तहृदयः उत्साही सन् स्वयं संपश्यमानो जिज्ञासमानो विचारयन् विश्वविषयं बोधं किमाश्रयं किं वा कीदृग् वाहं सृजामीत्यजानन् चिन्ताकुलस्तस्थिवान् तस्यौ । हे जगतां पते ! लोकोत्पत्तिस्थितिलयकुशल ! तावत् तस्मिन्नव सरे त्वमेनं ब्रह्माणं तप तपेत्येवं वाणीं तपसि प्रेरणात्मकं विधिं कुर्वन् अशिश्रवः श्रावितवानसि । कीदृशीं वैहायसीं विहायस्यभिव्यक्ताम् अदर्शितशरीरामित्यर्थः । अथापि श्रुतिसुखां श्रोत्रानन्ददायिनीम् ॥ २ ॥

 [१]द्वचनानन्तरं विधेः प्रवृत्तिमाह -

कोऽसौ मामवदत् पुमानिति जलापूर्णे जगन्मण्डले
 दिक्षूद्रीक्ष्य किमप्यनीक्षितवता वाक्यार्थमुत्पश्यता ।
दिव्यं वर्षसहस्रमात्ततपसा तेन त्वमाराधित-
 स्तस्मै दर्शितवानसि स्वनिलयं वैकुण्ठमेकाद्भतम् ॥ ३

 कोऽसाविति । जगन्मण्डले जलापूर्णे सति कोऽसौ पुमान् मामवदत् । जलमात्रशेषे जगति सति मां कश्चिदन्तर्हितोऽयमीदृशीं गिरमुक्तवान् किल । स पुमान् कः न च कोऽपि नास्तीति शक्यं वक्तुम् । असौ इति । व्यक्तस्य वचसः श्रवणात् कोऽपि वक्तास्तीत्यनुमयत एव । अतः स द्रष्टव्य इति दिक्षु चतसृषूद्वीक्ष्य तद्वकृदिदृक्षया स्वस्थानादुत्थाय परिक्रामन् मुखमुन्नमय्यावलोक्य किमप्यनीक्षितवता न केवलं वक्तारं पुमांस, जलाइन्यत् किञ्चिदपि वस्त्वदृष्टवता तेन पुनस्तद्वाक्यार्थे विचार्योत्पश्यता जानता त्वं तपश्चर, ततस्ते सृष्टि-


  1. 'एवं तपसि भगवत्प्रेरणान' क. पाठः,