पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ७]
४७
हिरण्यगर्भोत्पत्तिवर्णनम् ।

ति दर्शयन् भगवन्तं प्रार्थयते--तस्यति । तस्य तादृशस्य विराजः अन्तरात्मवपुषे अन्तर्यामिरूपाय विमलात्मने शुद्धसत्त्वमयमूर्तये ते तुभ्यं नमोऽस्तु | हे वातालयाधिप ! एवं क्रमादुपासनासामर्थ्याय मम रोगान् निरुन्धि नाशयेत्यर्थः ॥१०॥

इति विराड्देहस्य जगदात्मत्ववर्णनं

पष्टं दशकम् ।


 एवं त्रिगुणात्मके भगवद्रुपे स्थिरमनसो द्विगुणात्मकहिरण्यगर्भाख्यभगवद्रूपं दर्शयति ---

एवं देव ! चतुर्दशात्मकजगदूपेण जातः पुन-
 स्तस्योर्ध्व खलु सत्यलोकनिलये जातोऽसि धाता स्वयम् ।
यं शंसन्ति हिरण्यगर्भमखिलत्रैलोक्यजीवात्मकं
 योऽभूत् स्फीतरजोविकारविकसन्नानासिसृक्षारसः ॥ १ ॥

 एवमिति । अत्रायमभिप्रायः – स्थूलसूक्ष्मक्रमेण हि बुद्धयोऽर्थमवगाहन्त इति प्रथमं त्रिगुणात्मके भगवद्रूपे मनः प्रणिधाय तत्र स्थिरं सद् द्विगुणात्मके, ततः परं सत्त्वैकगुणे, ततश्च निर्गुणे सूक्ष्मे ब्रह्मणि प्रवेश्य निरतिशयानन्दलाभेन कृतकृत्यतामेतीति । हे देव! एवं चतुर्दशात्मकजगद्रूपेण जातस्त्वं स्वयं खलु त्वमेव पुनरनन्तरं तस्य जगत ऊर्ध्वम् उपरि सत्यलोकनिलये धाता जातोऽसि । यं त्वां हिरण्यगर्भं शंसन्ति, शास्त्रविद इति शेषः । यतोऽखिलत्रैलोक्यस्य विराजो जीवः पञ्चप्राणमनोवुद्धिदशेन्द्रियात्मकलिङ्गशरीरसमष्टयभिमानी, तदात्मकं तत्स्वरूपम् । यः स्फीतैः प्रवृद्धैः रजोविकारैः रजोगुणकार्यैः अत्र भेदबुद्धिरुपकारबुद्धी रागादयश्च रजःकार्याणि तैर्विकसन् आविर्भवन् नाना सुरनरतिर्यगादिशरीराणि तद्भोग्यानि च स्रष्टुमिच्छा सिसृक्षा तस्यां रस आग्रहो यस्य स विकसन्नानासिसृक्षारसः अत्र ब्रह्ममूर्तिर्विश्वकर्मशाको दर्शिता

"हंसारूढा चतुर्वक्रा तप्तकाञ्चनसन्निभा ।
शुक्लवस्त्रा लम्बकर्णकूर्चसौम्या चतुर्भुजा ॥
तुन्दिला सोत्तरीयोपवीता योगपदासना ।
जटामकुटशोभाढ्य। पिङ्गलाक्षी वरप्रदा ॥