पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६
[स्कन्धः - २
नारायणीये


वर्णानां भवनं स्थानम् । विप्राणां स्थानं तव मुखं, क्षत्रियाणां स्थानं तव बाहुः, वैश्यानां स्थानं तवोरुयुग्मम्, शूद्राणां स्थानं तव चरणौ चेत्यर्थः ॥ ८ ॥

संसारचक्रमयि चक्रधर ! क्रियास्ते
 वीर्य महासुरगणोऽस्थिकुलानि शैलाः ।
नाड्य: सरित्समुदयास्तरवक्ष्च रोम
 जीयादिदं पुरनिर्वचनीयमीश ! ॥ ९ ॥

 संसारेति । अयि चक्रधर ! ईश! सर्वनियन्तः ! संसारो जननमरणादिदुःखं, तदेव परिवृत्तिसाम्याच्चक्रं ते क्रियाः अभिज्ञाभिवदनोपादानार्थक्रियारूपाः । महतामसुराणां गणः समूहः तव वीर्य पराक्रमः | तवास्थिनखानि अस्थिकुलानीति वा पाठः, शैलाः पर्वताः । नाड्य: सिराः सरित्समुदया नदीततयः । रोम तनूरुहाणि तरवो वृक्षाः । चोऽनुक्तसमुच्चये । इदम् ईदृशं वपुरनिर्वचनीयम् अपरिच्छेघं जीयात् सर्वोत्कर्षेण सहाविष्कुरुतादित्यर्थः ॥ ९ ॥

 एवं विश्वमूर्त्युपासनासिद्धये भगवद्रूपं विभृश्यास्या[१]मुपासनायामधिकारिण आह ---

ईदृग् जगन्मयवपुस्तव कर्मभाजां
 कर्मवसानसमये स्मरणीयमाहुः ।
तस्यान्तरात्मवपुषे विमलात्मने ते
 वातालयाधिप ! नमोऽस्तु निरुन्धि रोगान् ॥ १०॥

 ईदृगिति । ईदृग् उक्तप्रकारं तव जगन्मयवपुः बिराङ्रूपं कर्मभाजां क [२]र्मावसानसमये स्मरणीयमाहुः । कर्माणि श्रवणस्मरणकीर्तनादीनि भक्त्यङ्गानि भजन्तीति कर्मभाजः साधनभक्त्यधिकारिणः तेषां कर्मणः षोडशोपचारायाः पूजाया अवसानसमये स्मरणीयं स्मर्तुं शक्यम् । तदन्या निष्कलोपासना शरीराभिमानिभिरशक्येत्यर्थः । तदुक्तमर्जुनाय[३] विश्वरूपं प्रदर्श्य 'मय्येच मन आंधत्स्व' (गी. १२.८) इति, ‘अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते' (गी. १२. ५) इति च । एवं त्रिगुणात्मकविश्वमूर्युपासकः क्रमाच्छुद्धसत्त्वमयमूर्त्यापासनायामधिक्रियत इ-


  1. 'स्याम' ख, पाठः.
  2. 'र्माणि' क. पाठ:.
  3. 'य भगवान् वि' ख. पाठः.