पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ६ ]
४५
विराड्देहस्य जगदात्मत्ववर्णनम् ।



माया विलासहसितं श्वसितं समीरो
 जिह्वा जलं वचनमीश! शकुन्तपङ्क्तिः ।
सिद्धादयः स्वरगणा मुखरन्ध्रमग्नि-
 र्देवा भुजाः स्तनयुगं तव धर्मदेवः ॥ ६ ॥

 मायेति । तव विलासहसितं लीलास्मितं माया । समीरो वायुः श्वसितं श्वासः । तव जिह्वा जलम् । हे ईश ! ईश्वर ! तव वचनं शकुन्तपङ्क्तिः पक्षिसमूहः। सिद्धादयः सिद्धविद्याधरचारणादयः तव स्वरगणाः स्वराणां श्रुतिभेदभिन्ना गणाः षड्जादयः । मुखरन्ध्रमास्यम् अग्निः । देवा इन्द्रादयस्तव भुजाः । धर्मदेवः देवतामूर्तिर्धर्मस्तव स्तनयुगम् ॥ ६ ॥

पृष्ठं त्वधर्म इह देव! मनः सुधांशु-
 रव्यक्तमेव हृदयाम्बुजमम्बुजाक्ष ! ।
कुक्षिः समुद्रनिवहा वसनं तु सन्ध्ये
 शेफ: प्रजापतिरसौ बृषणौ च मित्रः ॥ ७ ॥

 पृष्ठमिति । पृष्ठं त्वधर्मः । हे देव! द्योतनशील! इह अस्मिन् रूपे सुधांशुश्चन्द्रः तव मनः । तव हृदयाम्वुजमव्यक्तमेव सत्त्वादिगुणत्रयसाम्यं प्रधानमेव । हे अम्बुजाक्ष ! समुद्रनिवहाः समुद्रसमूहास्तव कुक्षिः उदरम् । प्रातःसायंसन्ध्ये तु तव वसनं वासोयुगलम् । प्रजापतिर्ब्रह्मा तव शेफः मेढ्रम् । असौ मित्रः तव वृषणौ ॥ ७॥

श्रोणीस्थलं मृगगणाः पदयोर्नखास्ते
 हस्त्युष्ट्रसैन्धवमुखा गमनं तु कालः ।
विप्रादिवर्णभवनं वदनाब्जबाहु-
 चारूरुयुग्मचरणं करुणाम्बुधे ! ते ॥ ८ ॥

 श्रोणीति । तव श्रोणीस्थलं मृगगणाः । ते तव पदयोर्नखाः हस्त्युष्ट्रसैन्धवमुखाः। सैन्धवोऽश्वः । तव गमनं तु कालः | हे करुणाम्बुधे ! एवंविधमूर्त्युपासनायां मयि तव कृपया भाव्यमिति भावः । वदनाब्जं बाहुश्च चारु सुन्दरमूरुयुग्मं च चरणौ च, तेषां द्वन्द्वः । प्राण्यङ्गत्वादेकवचनम् । ते तव बदनाब्जादिकं विप्रादीनां</poem>