पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५६
[स्कन्धः - ३
नारायणीये

तत्रान्त्यरात्रिजनितान् कथयामि भूमन् !
पश्चाद् दिनावतरणे च भवद्विलासान् ॥ ४ ॥

 पञ्चाशदिति । असौ ब्रह्मा अधुना पञ्चाशद् अब्दाः संवत्सराः प्रमाणं यस्य तत् पञ्चाशदब्दं स्वस्थ वयसो द्विपरार्धलक्षणस्यार्धरूपं पूर्वार्धात्मकमेकं परार्धमतिवृत्य अतिक्रम्य वर्तते । हिशब्दः प्रसिद्धौ । अयं वाराहः कल्पो द्वितीयपरार्धस्यादिरिति प्रसिद्ध इत्यर्थः । तत्र तेषु कल्पेष्वादिमो ब्राह्मः कथितः । पुनश्च अन्त्यरात्रिजनितानिति समनन्तरातीतः पाद्मः कल्पः, तस्मादर्वाचीना रात्रिः प्रथमपरार्धस्यान्त्यरात्रिः, तस्यां जनितान् पश्चात् पुनश्च दिनावतरणे (पाद्म? वाराह) कल्पारम्भे च हे भूमन्! कालदेशापरिच्छिन्न ! ये भवद्विलासाः भवतः सर्गप्रलयसम्बन्धिन्यो लीलाः, तान् विलासान् कथयामि स्तोतुमारभ इत्यर्थः ॥

दिनावसानेऽथ सरोजयोनिः सुषुप्तिकामस्त्वयि सन्निलिल्ये ।
जगन्ति च त्वज्जठरं समीयुस्तदेदमेकार्णवमास* विश्वम् ॥ ५ ॥

 दिनावसान इति । अथ सरोजयोनिर्ब्रह्मा दिनावसाने प्राक्कल्पावसाने सुषुप्तिकामः त्वयि श्रीनारायणे सन्निलिल्ये निलीनः सन् निद्रां कृतवान् । जगन्ति लोकाश्च तदा त्वज्जठरं तवोदरदेशं समीयुः ब्रह्मणा सह प्राप्ताः । तदा प्रलये इदं विश्वम् एकार्णवं जलमात्रशेषम् आस अभूत् ॥ ५ ॥

तवैव वेषे फणिराजि शेषे जलैकशेषे भुवने स्म शेषे ।
आनन्दसान्द्रानुभवस्वरूपः स्वयोगनिद्रापरिमुद्रितात्मा ॥ ६ ॥

 तवेति । एवं भुवने जलैकशेषे जलमात्रशेषे सति त्वं तव वेषे अवस्थाभेदरूप एव शेषे अनन्ताख्ये फणिराजि नागश्रेष्ठे शेषे स्म अशयिष्ठाः । आनन्दश्चासौ सान्द्रश्च स एवासावनुभवः सम्यग्ज्ञानं तद्रूपः । अत्र सान्द्रत्वमानन्दानुभवे[१]तररूपराहित्यं सच्चिदानन्दस्वरूप इत्यर्थः । योगः स्वस्वरूपानुसन्धानं स एव [२]निद्रेव निद्रा योगनिद्रा स्वीयया योगनिद्रया परिमुद्रितः सम्यग् लाञ्छितः आत्मा स्वरूपं यस्य स तथा ॥ ६॥


 आस प्रचकाशे । ‘अस गतिदीघ्यादानेषु' । भ्वादिः । आसेत्यव्ययं वा तिङ्प्रतिरूपमस्त्यर्थकम् ।


  1. ’वे तद्रूप’ ख पाठः
  2. 'निद्रा यो' ख. पाठ:.