पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३७४
[स्कन्धः - १२
नारायणीये


 मञ्जीरमिति । भ्रान्तिरूपेऽब्धौ मज्जतां प्रणतजनानाममृतार्थिनां मनो- रूपस्य मन्दरस्य उद्धारे कूर्मम् । सन्तापस्य ध्वान्तस्य अज्ञानस्य च हन्त्रीम्॥९॥

योगन्द्रिाणां त्वदङ्गेष्वधिकसुमधुरं मुक्तिभाजां निवासो
 भक्तानां कामवर्षयुतरुकिसलयं नाथ! ते पादमूलम् ।
नित्यं चित्तस्थितं मे पवनपुरपते! कृष्ण! कारुण्यसिन्धो !
 ह्टत्वा निःशेषतापान् प्रदिशतु परमानन्दसन्दोहलक्ष्मीम् ॥ १० ॥

 योगीन्द्राणामिति । योगीन्द्राणां ध्यातॄणां त्वदङ्गेषु मध्येऽधिकसुमधुरम् । मुक्तिभाजां तु निवास आश्रयः | परमानन्दसन्दोहलक्ष्मीं मोक्षम् ॥ १० ॥

 एवं स्तुतिमुपसंहृत्य तत्र वैगुण्यादिसम्भवमाशङ्कथ स्तोत्रस्य साद्गुण्यकरणायेश्वरे समर्पयन् वक्तृश्रोतॄणां पठनश्रवणफलमाशास्ते-

अज्ञात्वा ते महत्त्वं यदिह निगदितं विश्वनाथ ! क्षमेथाः
 स्तोत्रं चैतत् सहस्रोत्तरमधिकतरं त्वत्प्रसादाय भूयात् ।
द्वेधा नारायणीयं श्रुतिषु च जनुषा स्तुत्यतावर्णनेन
 स्फीतं लीलावतारैरिदमिह कुरुतामायुरारोग्यसौख्यम् ॥ ११ ॥

 अज्ञात्वेति । द्वेधा नारायणीयं नारायणमधिकृत्य कृतत्वाद् नारायणेन प्रोक्तत्वाञ्च।ननु विहितमविहितं वेदं स्तोत्रं त्वत्प्रसादाय भूयादिति समर्प्यत इति चेत्, श्रुातिविहितमेवेत्याह——श्रुतिष्विति । जनुषा अवतारैर्भगवतः स्तुत्यतया वर्णनं विधिर्विद्यते, तेन[१] स्फीतं व्याप्तम्[२], अथवा श्रुतिषु या जनुषा स्तुत्यता, तस्याः 'हे स्तोतारः' (द. ९९. क्ष्लो. ३) इत्यादिशब्दान्तरेण वर्णनेन लीलाव-


  1. 'नंद लीलावतारैः स्फी' क. ग. पाठः.
  2. 'प्तं कृतम्, अ’ क. ग. पाठः.