अङ्गे पञ्चाङ्गरागैरतिशयविकसत्सौरभाकृष्टलोकं |
अङ्ग इति । पञ्चाङ्गरागैः हरिचन्दनगोरोचनादिभिः अतिशयेन विकसता व्याप्तेन सौरभेणाकृष्टा लोका येन स तथा । लीनानेकत्रिलोकीम् अन्तर्गतानेकब्रह्माण्डामपि कृशामिति । अयमर्थः- यद्यपीदमपि ब्रह्माण्डं श्रीकृष्णोदरस्थं, तथापि एतद्ब्रह्माण्डान्तस्थानां तदानीन्तनानां स्वमूर्तेरिदन्तया प्रदर्शनं भगवतो योगश्वर्य[१]वैभवेन । एवञ्च मध्यवल्ल्याः कृशत्वापादनं नास्य[२] किञ्चिद् भार इति । शक्राश्मेति । भगवन्मूर्तेरिन्द्रनीलश्यामत्वात् पीताम्बरस्य कनकनिभत्वाञ्च सञ्जातपरभागमिति भावः । दीप्ताभिः रश्मिभिः मणिदीप्तिभिः स्फुटया प्रकाशमानया ॥ ७ ॥
ऊरू चारू तवोरू घनमसृणरुचौ चित्तचोरौ रमाया |
'ऊरू इति। विश्वक्षोभं लोकोत्तररामणीयकत्वेन द्रष्टृजनपारवश्यं विशङ्कय। समस्तार्थपालीनां सकलपुरुषार्थसार्थानां यः समुद्गः सम्पुटक:, तस्यच्छाया शोभेव शोभा यस्य ॥ ८ ॥
मञ्जीरं मञ्जुनादैरिव पदभजनं श्रेय इत्यालपन्तं |