पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४२
[स्कन्धः - ११
नारायणीये


 ननु तर्हि सत्त्ववृद्धिरेव प्रार्थ्यतां, किं भक्त्येत्याशङ्कायामाह-

सत्त्वोन्मेषात् कदाचित् खलु विषयरसे दोषबोधेऽपि भूमन् !
 भूयोऽप्येषु प्रवृत्तिः सतमसि रजसि प्रोद्धते दुर्निवारा ।
चित्तं तावद् गुणाक्ष्च ग्रथितमिह मिथस्तानि सर्वाणि रोद्धुं
 तुर्ये त्वय्येकभक्तिः शरणमिति भवान् हंसरूपी न्यगादीत् ॥ २ ॥

 सत्त्वोन्मेषादिति । सत्त्वस्य उन्मेषो वृद्धिः, ततः खलु विषयरसे विषयास्वादे दोषबोधे सत्यपि भूयोऽप्येषु विषयेषु प्रवृत्तिर्दुर्निवारा भवति । तत्र हेतुः—सतमसि रजसि प्रोद्धत इति । रजस्तमोभ्यां सत्त्वस्याभिभवादिति भावः । यावदेवं, तावद् गुणा विषयाश्चित्तं च मिथो ग्रथितं भवति । चित्तं हि रागादिवशाद् विषयेषु प्रविशति । ते चानुभूता विषया वासनारूपेण चित्ते[१] च प्रविशन्ति । ततो मिथो ग्रथितं भवतीत्यर्थः । तानि सर्वाणि गुणचित्तरजस्तमांसि रोद्धुं त्यक्तुं तुर्ये अवस्थात्रयातीते तत्साक्षिणि त्वाये ईश्वरे भक्तिरेव शरणम् । हंसरूपीति । क्षीरनीरविवेकचतुरो हंसः, तद्वदात्मानात्मविवेकचतुरतया परमहंसः परिव्राट्, तद्रूपी भूत्वा भवान् ब्रह्मणः पुरतः सनकादिभ्यो न्यगादीद् उपदिदेश ॥

 ननु किं भक्तितुल्यं श्रेयस्साधनमस्ति, नेत्याह-

सन्ति श्रेयांसि भूयांस्यपि रुचिभिदया कर्मिणां निर्मितानि
 क्षुद्रानन्दाक्ष्च सान्ता बहुविधगतयः कृष्ण! तेभ्यो भवेयुः ।
त्वं चाचख्याथ सख्ये ननु महिततमां श्रेयसां भक्तिमेकां
 त्वद्भक्त्यानन्दतुल्यः खलु विषयजुषां सम्मदः केन वा स्यात् ॥ ३ ॥

 सन्तीति । श्रेयांसि श्रेयस्साधनानि कर्मिणां रागादिना कर्माधिकारिणां रुचिभिदया अधिकारभेदेन निर्मितानि बृहस्पतिव्यासपतञ्जलिप्रभृ[२]तिभिराचार्यैः प्रोक्तानि । तेभ्यः श्रेयस्साधनेभ्यः बहुविधाः स्वर्गादिरूपाः गतयः फलानि भवेयुः। किन्तु ताः क्षुद्रानन्दाः दुःखमिश्रतया स्वल्पसुखाः सान्ताः


  1. 'त्तं' क. ग. पाठ:.
  2. 'मुखैरा’ क. पाठ:.