ननु तर्हि सत्त्ववृद्धिरेव प्रार्थ्यतां, किं भक्त्येत्याशङ्कायामाह-
सत्त्वोन्मेषात् कदाचित् खलु विषयरसे दोषबोधेऽपि भूमन् ! |
सत्त्वोन्मेषादिति । सत्त्वस्य उन्मेषो वृद्धिः, ततः खलु विषयरसे विषयास्वादे दोषबोधे सत्यपि भूयोऽप्येषु विषयेषु प्रवृत्तिर्दुर्निवारा भवति । तत्र हेतुः—सतमसि रजसि प्रोद्धत इति । रजस्तमोभ्यां सत्त्वस्याभिभवादिति भावः । यावदेवं, तावद् गुणा विषयाश्चित्तं च मिथो ग्रथितं भवति । चित्तं हि रागादिवशाद् विषयेषु प्रविशति । ते चानुभूता विषया वासनारूपेण चित्ते[१] च प्रविशन्ति । ततो मिथो ग्रथितं भवतीत्यर्थः । तानि सर्वाणि गुणचित्तरजस्तमांसि रोद्धुं त्यक्तुं तुर्ये अवस्थात्रयातीते तत्साक्षिणि त्वाये ईश्वरे भक्तिरेव शरणम् । हंसरूपीति । क्षीरनीरविवेकचतुरो हंसः, तद्वदात्मानात्मविवेकचतुरतया परमहंसः परिव्राट्, तद्रूपी भूत्वा भवान् ब्रह्मणः पुरतः सनकादिभ्यो न्यगादीद् उपदिदेश ॥
ननु किं भक्तितुल्यं श्रेयस्साधनमस्ति, नेत्याह-
सन्ति श्रेयांसि भूयांस्यपि रुचिभिदया कर्मिणां निर्मितानि |
सन्तीति । श्रेयांसि श्रेयस्साधनानि कर्मिणां रागादिना कर्माधिकारिणां रुचिभिदया अधिकारभेदेन निर्मितानि बृहस्पतिव्यासपतञ्जलिप्रभृ[२]तिभिराचार्यैः प्रोक्तानि । तेभ्यः श्रेयस्साधनेभ्यः बहुविधाः स्वर्गादिरूपाः गतयः फलानि भवेयुः। किन्तु ताः क्षुद्रानन्दाः दुःखमिश्रतया स्वल्पसुखाः सान्ताः