पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् – ९५]
३४१
भक्तया विशुद्धचित्तस्यैव भगवत्स्वरूपध्यानयोग्यतावर्णनम् ।


 ननु भक्त्या जीवेश्वरैक्ये सति संसारनिवृत्तिरित्युक्तम् । तदनुपपन्नं, तयोर्भिन्नत्वे सत्यैक्यायोगाद्, अभिन्नत्वे तयार्जीवस्य संसारानुपपत्तेरित्याशङ्कच ईश्वरस्यैव मायामयशरीरसम्बन्धात् संसारित्वं तदपाये स्वस्वरूपेणावस्थानं च भवतीति परिहरति---

आदी हैरण्यगर्भी तनुमविकलजीवात्मिकामास्थितस्त्वं
 जीवत्वं प्राप्य मायागुणगणखचितो वर्तसे विश्वयोने! ।
तत्रोद्वृद्धेन सत्त्वेन तु गुणयुगलं भक्तिभावं गतेन-
 च्छित्वा सत्त्वं च हित्वा पुनरनुपहितो वर्तिताहे त्वमेव ॥ १ ॥

 आदाविति । आदौ ब्रह्मप्रलयावसाने तव सिसृक्षायां सत्यां त्वं हिरण्यगर्भस्येयं हैरण्यगर्भी, तां तनुमास्थितः तदभिमान्यभूः । कीदृशीम्, अविकलजीवात्मिकां । अत्र जीवशब्देन सूक्ष्मशरीरमुच्यते । सूक्ष्मशरीरसमष्टिरूपामित्यर्थः । किमर्थमित्यपेक्षायां तद्धेतुत्वेन सम्बोधयति । विश्वयोने! इति । विश्वस्य विराट्च्छरीरस्य प्रपञ्चस्य योनिः कारणम् । सूक्ष्मशरीराद्धि स्थूलशरीरोत्पत्तिः। एवञ्च जगत्सृष्ट्यर्थं हिरण्यगर्भो ब्रह्माभूरिति भावः । एवम्भूतस्त्वमेव तथ्यष्टिरूपं जीवत्वं प्राप्य मायागुणानां मायाकार्याणां महदहङ्कारभूतेन्द्रियप्राणपञ्चकरूपाणां तत्त्वानां गणेन, तत्सङ्घातात्मकेन शरीरेणेत्यर्थः, खचितः सम्बद्धो वर्तसे त्वमेव शरीराभिमानितया संसारी भवसि । अतो मम त्वद्रूपत्वात् त्वदैक्यम् युज्यत इति भावः । एवं संसारिणो जीवस्य रजस्तमोवृद्धौ संसारानिवृत्तिः । सत्त्ववृद्धौ विशेषमाह—तत्र त्विति । तत्र मायागुणेषु तु सत्त्ववृद्धौ विशेषोऽस्तीत्यर्थः। सात्त्विकपदार्थसेवया उद्द्द्धेन अत एव भक्तिभावं गतेन भक्तिरूपणे परिणतेनेत्यर्थः । गुणयुगलं रजस्तमश्च तत्कार्यभूतं शरीरादिकं च छित्वा मायामयत्वेन ज्ञानमुत्पाद्यापाकृत्य कृतकार्यतया साधनरूपं सत्त्वं च हित्वा पुनः कार्यकारणाव्यवधानाद् अनुपहितः परिपूर्णस्त्वमेवाहं वर्तिताहे त्वदेकीभावमनुभवितास्मीति भावः ॥ १ ॥