पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४०
[स्कन्धः - ११
नारायणीये


विशेषणत्वात् पुँल्लिङ्गत्वम् । प्रकृष्टा समग्रोपचारयुक्ता पूजा प्रपूजा, नतिर्नमस्कारः, नुतिः स्तवनं, गुणैः सत्त्वादिभिः कृतानां सृष्ट्यादिकर्मणामनुकीर्तिः, आसु आदरोऽपि मे भूयात् ॥८॥

यद्यल्लभ्येत तत्तत् तव समुपहृतं देव ! दासोऽस्मि तेऽहं
 त्वद्नेहोन्मार्जनाद्यं भवतु मम मुहुः कर्म निर्मायमेव ।
सूर्याग्निब्राह्मणात्मादिषु लसितचतुर्बाहुमाराधये त्वां
 त्वत्प्रेमार्द्रत्वरूपो मम सततमभिष्यन्दतां भक्तियोगः ॥ ९॥

 यद्यदिति । समुपहृतं समर्पितम् । त्वद्वेहेषु क्षेत्रादिषु उन्मार्जनं रजसोऽपाकरणम् आद्यं यस्य सेचनपुष्पोपहारादेः निर्मायं दाम्भिकतारहितं कर्म मम मुहुर्भवतु । पूजाधिष्ठानान्याह — सूर्येति[१] । आदिशब्देन गवादि गृह्यते । एष्वधिष्ठानेषु लसितचतुर्बाहुमाराधये सौरसूक्तहविरातिथ्यविषयभोगयवसादिभिः पूजयामि । त्वत्प्रेम्णा आर्द्रा द्रुतहृदयः, तस्य भावस्तत्त्वं, तद्रूपो भक्तियोगो मम सततमभिष्यन्दतां त्वद्विषये प्रवाहरूपेण प्रवर्ततामित्यर्थः ॥ ९ ॥

ऐक्यं ते दानहोमव्रतनियमतपस्साङ्ख्ययोगैर्दुरापं
 त्वत्सङ्गेनैव गोप्यः किल सुकृतितमाः प्रापुरानन्दसान्द्रम् ।
भक्तेष्वन्येषु भूयस्स्वपि बहुमनुषे भक्तिमेव त्वमासां
 तन्मे त्वद्भक्तिमेव द्रढय हर गदान् कृष्ण! वातालयेश! ॥१०॥

 ऐक्यमिति । दानादिभिर्योगिनामपि दुरापं ते तव ऐक्यं मोक्षं गोप्यस्त्वत्सङ्गेनैव प्रापुः किल । अतस्ताः सुकृतितमाः । आनन्दसान्द्रम् आनन्दैकरसम् । अन्येषु भूयस्सु बहुष्वपि भक्तेषु उद्धवादिषु सत्स्वपि त्वम् आसां गोपिकानां भक्तिमेव बहुमनुषे । तत् तस्माद् मे त्वयि प्रेमलक्षणां भक्तिभेव द्रढय अनपायिनीं कुरु ॥ १० ॥

इति तत्त्वज्ञानोत्पत्तिप्रकारवर्णनं, बन्धमोक्षस्वरूपवर्णनम्, अभक्तनिन्दापूर्वकं भक्तिप्रार्थनावर्णनं च

चतुर्नवतितमं दशकम् ।



  1. 'ति। आत्मान्तर्यामी । आ' क. ग. पाठः.