अभक्तानां शास्त्रश्रमोऽपि पाण्डित्यमात्रफल इत्याह-
शब्दब्रह्मण्यपीह प्रयतितमनसस्त्वां न जानन्ति केचित् |
शब्दब्रह्मणीति । मीमांसाधुपाङ्गोपबृंहिते साझे वेदे प्रयतितमनसः कृतश्रमा अपि इह केचित् तत्प्रधानप्रतिपाद्यं त्वां परं ब्रह्म न जानन्ति नोपासनादि कुर्वन्ति । कष्टम् | ते वन्ध्यश्रमाः व्यर्थपरिश्रमाः । ते चिरतरं दीर्घकालं निष्प्रसूतिं भक्तिज्ञानफलोत्पादनरहितां गां वाचं जल्पवितण्डाख्यां बिभ्रते। अथवा प्रसवहीनतया निर्दोहां गां धेनुं बिभ्रते पुष्णन्ति । अहं तु यस्यां वाचि विश्वान् सर्वजनान् अभिरमयन्तीति विश्वाभिरामाः सकलानां मलानां दुरितानां रागादीनां च निवर्तकाः दिव्याः शुद्धसत्त्वमयाः श्रीरामकृष्णाद्यवतारा न निगदिताः, सच्चित्सान्द्रं रूपं परं ब्रह्म न निगदितं न प्रतिपादितं, तां सगुणनिर्गुणेश्वरप्रतिपादनविधुरां वाचं न भ्रियासं न व्यवहरेयम् ॥ ७ ॥
अथ सत्सङ्गमद्वारा भक्ति प्रार्थयते त्रिभिः-
यो यावान् यादृशो वा त्वमिति किमपि नैवावगच्छामि भूम- |
य इति । यः यत्स्वरूप : यावान् याहङ्महिमा यादृशः यद्धर्मो वा त्वमिति किमपि नैवावगच्छामि । हे भूमन् ! ईश्वर ! एवञ्च सति अनन्यभावः त्वदेकचित्तः सन् त्वदनुभजनं त्वत्सेवामेवाद्रिये । कथमज्ञात्वा मद्भजनमित्यत आह—चैद्यवैरिन्निति । शिशुपालवैरिन् ! गोपालबालकतया श्रुतत्वादेतावदवगच्छामीति भावः । त्वल्लिङ्गानां त्वत्प्रतिमानां त्वदङ्घ्रिप्रिया भक्तजनाः, तेषां सदसां सभानाम । दर्शनस्पर्शनादिरिति नमस्कारादि गृह्यते । यद्वा सत्संङ्ग-