याथार्थ्यादिति। परमार्थतस्त्वन्मयस्य[१] ईश्वरादभिन्नस्यैव मम जीवस्य न वस्तुतो बन्धमोक्षौ, तथापि तव ईश्वरस्य माथाविद्यातनुभ्यां विद्याविद्यारूपशक्तिद्वयेन विरचितौ तौ बन्धमोक्षौ । अविद्यया बन्धो विद्यया च मोक्ष इति भावः । तौ च स्वप्नबोधोपमौ यथा स्वप्नद्रष्टुः स्वप्नदृष्टेन देहेन बन्धः प्रबुध्य च तन्मोक्षः, तद्वद् अविदुषो देहबन्धः विदुषो मोक्षश्च । तथाच स्वप्नवन्मायामयत्वेऽपि बन्धस्य दुःखहेतुत्वाद् ज्ञानेन बन्धच्छेदः प्रार्थनीय इति भावः । तदेव बद्धमुक्तयोर्वैलक्षण्यमाह – बद्ध इति । बद्धे संसारिणि जीवद्विमुक्तिं गतवति जीवन्मुक्ते च तावत् तावती वक्ष्यमाणरूपा । एको बद्धः देह एव द्रुमः, द्रुमवदनित्यत्वादिधर्मत्वात्, तत्स्थः तस्मादपृथग्भूतः सन् विषयरसफलं विषयानुभवरूपं कर्मफलं भुङ्क्ते । अपरः जीवन्मुक्तः न विषयरसफलं भुङ्क्त्ते । तथापि ज्ञानशक्तया निर्व्यथात्मा पीडारहितः ॥ ५ ॥
ननु तर्हि जीवन्मुक्तत्वमेव प्रार्थ्यतामित्याशङ्कच तदनधिकारमाकलय्य भक्ति प्रार्थयते--
जीवन्मुक्त्तत्वामिति वचसा किं फलं, न दूरदूरे |
जीवन्मुक्तत्वमिति । वचसा किं फलं, न तत्प्राप्तिः स्यात् । अशुद्धबुद्धेः रागादिदुष्टान्तःकरणस्य तद् जीवन्मुक्तित्वं दूरे नाम । तर्ह्यन्तःकरणशुध्घपाया अन्वेष्टव्या इत्याशङ्कय किमुपायान्तरेण भक्तिरेव लघुरुपाय इत्याह- -न चेति । न च भक्तितोऽन्यद् मनसः शोधनं शुद्धयुपायः तीर्थस्नानादि लघु अतिशीघ्रम् अप्रयत्नं च भवति । तत् तस्मात् त्वयि भक्तिभारम् अनपायिनीं भक्ति कृषीष्ठाः । कृतम् अनुष्ठितं सकलानां शरीरतत्सम्बन्धिनां प्रार्पणं मन्त्रपुरस्सर समर्पणं यस्मिन् भक्तिभारे । किञ्चिद्गुरुवचनेति भक्तौ सत्यां स्वयमेव ज्ञानोत्पत्तिरिति दर्शयति। मङ्क्षु शीघ्रं गुरुवचनमात्रनिमित्तेन मिलता सञ्जातेन त्वत्प्रबोधेन ब्रह्मज्ञानेन त्वदात्मा मुक्तो भवामीत्यर्थः ॥ ६ ॥