पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३४
[स्कन्धः - ११
नारायणीये


ऽयं देहः इह सकलजन्तुष्वपि परतः अवसाने परं केवलं वह्नेर्दहनाय शुनो भक्षणाय वा भवति । साम्प्रतं च जीवत्यपि सति । अक्षिकर्णत्वग्जिह्वाद्या इति तदधिष्ठातारोऽर्कादिदेवा गृह्यन्ते, अक्ष्यादीनां तदधीनप्रवृत्तित्वात् । आदिशब्देन वाकूपाण्यादि गृह्यते | एनम् अतइतः स्वस्वविषयेषु रूपादिषु कर्षन्ति । एषु कोऽपि त्वत्पदाब्जे भगवत्पादारविन्दविषये न कर्षति ॥ ९ ॥

 ननु प्रारब्धकर्मफलस्यावश्यं[१] भोग्यत्वात् तद्भोगस्य च देहगे[२]हासक्त्यायत्तत्वात् तत्त्यागोऽशक्य इति चेत् तर्हि प्रकारान्तरेण मम जन्मसाफल्यं कुर्विति प्रार्थयते----

दुर्वारो देहमोहो यदि पुनरधुना तर्हि निश्शेषरोगान्
 हट्त्वा भक्तिं द्रढिष्ठां कुरु तव पदपङ्केरुहे पङ्कजाक्ष ! ।
नूनं नानाभवान्ते समधिगतमिमं मुक्तिदं विप्रदेहं
 क्षुद्रे हा हन्त मा मा क्षिप विषयरसे पाहि मां मारुतेश ! ॥ १० ॥

 दुर्वार इति । यदि पुनर्देहमोहो दुर्वारः, तर्हि अधुना अस्मिन् जन्मन्येव निश्शेषान् बाह्यान् वातादिरोगान् आन्तरान् रागादिरोगान् । द्रढष्ठिम् अनपायि[३]नीम् । अतिदुर्लभस्या[४] स्य विप्रदेहस्य सफलीकरणेन मां पाहीत्याह---नूनमिति ॥ १० ॥

इति पञ्चविंशतेर्गुरुभ्यः शिक्षणीयस्य वर्णनं त्रिनवतितमं दशकम् ।


 एवं पञ्चविंशत्या गुरुभिरुत्पन्नविवेकज्ञानस्य तत्त्वज्ञानोत्पत्तिप्रकारं दर्शयति--

शुद्धा निष्कामधर्मैः प्रवरगुरुगिरा तत् स्वरूपं परं ते
 शुद्धं देहेन्द्रियादिव्यपगतमखिलं व्याप्तमावेदयन्ते ।


  1. 'श्यभो' क ग. पाठ:.
  2. 'इ' क. पाठः.
  3. 'नीं कुरु । अ' ग. पाठ:.
  4. 'स्य वि' ख. पाठः.