पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ९४]
३३५
तत्त्वज्ञानोत्पत्तिप्रकारवर्णनम् ।


नानात्वस्थौल्यकार्श्यादि तु गुणजवपुस्सङ्गतोऽध्यासितं ते
 वह्नेर्दारुप्रभेदेष्विव महदणुतादीप्तताशान्ततादि ॥१॥

 शुद्धा इति । निष्कामधर्मैः फलकामनामन्तरेणानुष्ठितैर्वर्णाश्रमधर्मैः शुद्धाः रागादिदोषरहिताः, शमदमादिसाधनचतुष्टयसम्पन्ना इति यावत् । प्रवरस्य वेदतदर्थनिष्णाततया श्रेष्ठस्य गुरोः अज्ञाननिरोधनचतुरस्य गिरा प्रवचनात्मिकया ते तवेश्वरस्य तद् निष्कलस्वरूपम् आवेदयन्ते अवगच्छन्ति । कीदृशं, देहेन्द्रियादिभ्यो व्यपगतं व्यतिरिक्तम् अत एव शुद्धं मायातत्कार्योपरागरहितं परं परब्रह्माख्यम् अखिलं व्याप्तं सर्वाश्रयं सर्वानुस्यूतं च । नन्व[१]खिलव्याप्तत्वं कृशोऽहं स्थूलोऽहमित्यादिप्रतीतेः प्रतीतिविरुद्धमित्याशङ्कचाह——नानात्वेति । तवात्मनो नानात्वादि तु गुणजवपुस्सङ्गतः मायामयशरीरोपाधित्वेन अध्यासितं कल्पितम् । अत औपाधिकत्वेन नानात्वादयो नात्मधर्मा इत्यर्थः । अत्रानुरूपं दृष्टान्तमाह—वह्नेरिति। दारुप्रभेदेषु काष्ठेषु स्थितस्य वहेर्यथा महदणुतादि । महत्त्वमणुत्वं दीप्तत्वमुत्पन्नत्वं शान्तत्वं नष्टत्वम् । आदिशब्देन नानात्वादि गृह्यते । एते दारुधर्मा अपि यथाग्नेर्दारुणोऽ[२]विविक्तत्वादग्निधर्मतया प्रतीयन्ते, तथात्मनः शरीरस्यापि विविच्य ज्ञानाभावान्नानात्वादयो जरामरणादयोऽप्यात्मधर्मा इव प्रतीयन्ते न परमार्थत इति भावः ॥ १ ॥

 एतच्च ज्ञानमाचार्याल्लुब्धमेवाज्ञानतत्कार्यनिरसनक्षममिति स्फुटीकर्तुं विद्योत्पत्तिं रूपकेण निरूपयति-

आचार्याख्याधरस्थारणिसमनुमिलच्छिष्यरूपोत्तरार-
 ण्यावेधोद्भासितेन स्फुटतरपरिबोधाग्निना दह्यमाने ।
कर्मालीवासनातत्कृततनुभुवनभ्रान्तिकान्तारपूरे
 दाह्याभावेन विद्याशिखिनि च विरते त्वन्मयी खल्ववस्था ॥ २ ॥

 आचार्याख्येति । आचार्याख्यो योऽवरस्थाराणः अधोगतमथनकाष्ठविशेषः, समनुमिलन् उपनयनद्वारा[३] आचार्यसन्निधिं प्राप्तो यः शिष्यः, तद्रूपो य उत्तरा-


  1. 'न्वात्मनो नानात्वशरीरत्वपरिमाणत्वक्षणिकत्वादिधर्मान् केचिदाचक्षते । कथं सञ्चिदानन्दादिस्वरूपत्वेन ज्ञातव्यमित्याह' ग. पाठ:.
  2. 'व्यतिरिक्त' ख. पाठ:.
  3. 'रा स' ख. ग. पाठः.